SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ. STETISE SIST252525TSSTG ॥३०१॥ यदा चक्रधरो राजा श्रीशान्तिजिननन्दनः । तव पाणिग्रहं नारि ! करिष्यति कलोत्सवम् ॥७३॥ तदा त्वं लभसे नारी-रूपं विद्याधराङ्गजे! । ततस्त्वां वरितुं नित्य-मीहते मम नन्दिनी ॥ ७४ ॥ पृच्छं पृच्छं स्थिति ताव-कीनां ग्रामे पुरे पुरे । ज्ञात्वाऽतो वानरीरूपां सुतान्तिके ऽहमानयम् ॥ ७५ ॥ एतस्याः किल वानर्या मम पुत्र्याः करग्रहात् । त्वं कुरुष्वाचिरात् राजन् । पूर्व रूपं मनोहरम् ॥ ७६॥ उपकारपरो राजा तस्या पाणिग्रहं यदा । कर्तृकामोऽभवत्ताव-न्मन्त्री प्राह नृपं प्रति ॥ ७७ ॥ वानर्याः कार्यते पाणि-ग्रहः केनापि कुत्रचित् । कदाचित् कपटं केन मण्डितं स्यान्न वरं तदा ॥७८ ।। राजाऽवग् जीवितव्यस्य सारं तद् विद्यते खलु । यदेव क्रियतेऽन्येषा-मुपकारः सुखावहः ॥ ७९ ॥ वानर्या भूभुजा याव-च्चक्रे पाणिग्रह स्वयम् । तावन्नार्यभवद्दीव्य-रूपभृत् सुरसुन्दरी ॥ ८ ॥ कलाप्रियेण तुष्टेन विद्या बह्वीः खगादिमाः । तस्मै दत्ताः कनीतुल्या-श्चक्रधराय भृभुजे ॥ ८१ ॥ भ्रमँस्तस्मिन् वने दृष्ट्वा तापसान कन्दभक्षकान् । जगौ चक्रधरी यूयं के ? किं किं क्रियते तपः ? ॥ ८२ ॥ जगदुस्ते वयं कच्छा-न्वये जातास्तपस्विनः । कन्दमूलफलाहारा वसामस्तटिनीतटे ।। ८३॥ आह चक्रधरो भो भो ! तापसाः शुद्धमार्गतः । भ्रष्टा यूयं न कुर्वीध्व-मभक्ष्य-भक्षणं क्षणम् ॥ ८४ ॥ * यत-"गूढस्नसाश्छिन्नरुहाः समभागाश्च पल्लवाः । मिथ्यादृशामविज्ञाता अखाचा हि प्रकीर्तिताः ॥ ८५॥5 ISESTSS2S22SESS2TS2 ॥३० ॥ For Private and Personal use only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy