________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥३०
॥
2S225252525252525252.
मद्रारावं प्रलुभ्यनिजयुवतियुतश्चेष चक्रोऽपि चक्री-कृत्य ग्रीवानताम्भोरुहविशकवलायत्ति चात्यन्तहष्टाः ॥ इत्यादि सरसी वृक्ष-चक्रादि शकुनव्रजम् । पश्यन् राजाऽग्रतश्चैत्य-मपश्यद् व्योममार्गगम् ॥ ६१ ॥ तत्र गत्वा नृपश्चैत्य-मध्ये बर्यमणीमयम् । विम्बं श्रीआदिदेवस्य सभार्योऽपूजयत्तमम् ॥ ६२॥ वरपुष्पाक्षतस्तोत्रैः पूजयित्वाऽऽदिमं जिनम् । राजा चक्रधरो देव-गृहाद् बहिर्यदा ययौ ॥६३ ॥ तदैकां वानरी वर्य-नारीभिरभितो वृताम् । तत्रायातां निरीक्ष्येति जगौ चक्रधरस्तदा ॥६४॥ भो! नार्यों यूयं किं वय-रूपलावण्यसंयुताः । सेवध्वं वानरी तिर्यग्-जातिजां-बदताऽधुना ॥६५॥ तत्राऽऽसनस्थितो विद्याधर एको जगाविति । वैताढयस्योत्तरश्रेण्यां भीमा नगरे बरे ॥ ६६ ॥ चन्द्रचूडाभिधो विद्या-धरोऽहमभवं किल । शृङ्गारसुन्दरी नाम्ना पुत्री मेऽभूत् सुरूपभृत् ॥ ६७ ।। रन्तुं गताऽन्यदोद्याने नन्दिनी सा सखीयुता । रेमे परस्परं पुष्प-कोटीररचनादिभिः ॥ ६८ ॥ गृह्णन्ती स्वेच्छया पुष्प-फलानि तरुतस्तदा । हसन्ती तरुशाखासु पुत्री मे सुरसुन्दरी ।। ६९ ॥ चापल्यत्वं वितन्वाना थूत्कृतिं च पदे पदे । वनदेवतया शप्ता वानरी समजायत ॥ ७० ॥ वानरी वनदेव्यास्तु पादौ नत्वा दृढं जगौ । अपराधो मया चक्रे यस्ते क्षन्तव्य एव सः ।।७१ ॥ वानरीत्वमपाकृत्य नारीरूपं ममाचिरात् । कुरु प्रसद्य देवी त्वं ततो देवी जगावदः ॥ ७२ ॥
ISES2SSESESSESSSSS
॥३०॥
For Private and Personal Use Only