SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsun Gyanmandie AAAAAAAA शत्रुञ्जय कल्पवृ० ॥२९८॥ STISSPSSESSESESST2TS आगते तु बहु सङ्के सुलग्ने शान्तिनन्दनः । यात्रा कर्तुं चचालाऽथ कुलसीकृतमङ्गलः ॥३६॥ जाम्बूनदमया देवा-लया शतानि षोडश । चेलुः काष्ठमया वर्या-श्चतुःसहस्रसम्मिताः ॥ ३७॥ द्वात्रिंशच्च सहस्राणि भूपाश्चेलुमनोरमाः । इभ्या लक्षमिता कोटि-मिता अन्ये जनाः पुनः ॥ ३८॥ चलन् सङ्घः पुरे ग्रामे कुर्वन् स्नात्रमहोत्सवम् । सुराष्ट्राराष्ट्रमायातः शत्रुञ्जयस्य सन्निधौ ॥ ३९ ॥ देवालयपुरस्तस्य निषण्णस्य महीपतेः । एत्य कश्चित् खगो नत्वा कृताञ्जलिः स्थितो मुदा ॥४०॥ भूपोऽप्राक्षीत् कुतः स्थानात् कस्त्वं किमर्थमागतः । दीनास्यो दृश्यसे कस्मा-च्चारुरूपधरोऽपि हि १ ॥४१॥ खेटद्रङ्गपते रत्न-प्रियस्य व्योमगामिनः । कलाप्रियाभिधः पुत्रोऽभूवं जनकवल्लभः ॥ ४२ ॥ क्रमाद्राज्ये निजे मां तु स्थापयित्वा वरोत्सवम् । जग्राह संयम सोम-देवाचार्यान्तिके पिता ॥४३॥ अधुना बलिभिगोत्रर्वेष्टितं नगरं बलात् । विहस्ता मनुजा जाता-स्ततोऽहं व्याकुलोऽभवम् ॥४४॥ आराधिता मया चक्रेश्वरी देवी जगावदः । कार्य राज्येन चेत्तेऽस्ति यदि कलाप्रियाऽधुना ॥ ४५ ॥ तदा चक्रधरं भूप-मिहानयाचिरात्त्वकम् । तस्य दृष्टौ रिपोश्चक्रं नंष्ट्वा यास्यति दूरतः ॥४६॥ ततो वालयितुं राज्यं स्वकं वाञ्छंस्तवान्तिके । आगामिह कृपां कृत्वा मयि तत्राऽऽव्रज द्रुतम् ॥४७॥ त्वयि तत्रागते सर्व रिपुसैन्यं गमिष्यति । तव तुल्योऽस्ति को लोके परोपकारकोऽधुना ? ॥४८॥ GESESSESESUESESSISSESC A LI२९८॥ AAAAAAAAAA For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy