________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ. ॥२७३॥
2525252525252225PSI
रत्नान्यादाय भूमीशो यक्षलक्षरधिष्ठितः । ससैन्यैश्चालयन् विश्वं चचालाऽचलविक्रमः ।। ८९ ॥ युग्मम् ।। पूर्वाञ्चौ मागधाधीशं वायव्यां वरदामकम् । प्रतीच्यब्धौ प्रभासेशं बलेन बलिन भृशम् ॥९॥ कृत्वाऽष्टमं तपः साध-यित्वा सगरभूपतिः । ययौ सिन्धुमहासिन्धो रोधसि क्रमतस्तदा ॥९१ ॥ जित्वा सिन्धुपति भूपः वैताढ्यव्योमगानपि । स्ववशान विदधे भूमी-पतिनन्यानपि क्रमात ॥ ९२ ॥ एवं चक्रानुगो भूपः पट्खण्डा वसुधां समाम् । साधयामास निःशेप-प्रत्याथिभूमिभुगजयात् ।। ९३ ।। स लक्षश्चतुरशीत्या कुम्भि-स्यन्दन-वाजिनाम् । सपादकोटिभिः खड्गैः सगरोडलङ्कृतः क्रमात् ॥ ९४ ॥ षटखण्डां मेदिनी भूपः साधयित्वा निजौजसा । स्वाह्वां लिलेख ऋषभ-कूट कुर्वन् महोत्सवम् ॥१५॥ विस्तराद्देशसाधन-वैताढयपर्वतगुहागमन-गंगानदीतटनवनिधानघटनादिसम्बन्धश्चरित्रात् ज्ञेयः । सगरश्चक्रिराट् स्वीयपुरेऽभ्येत्य चमूयुतः । राज्याभिषिञ्चनविधि व्यधाद् द्वादशवत्सरीम् ॥९६ ॥ विहरन्नन्यदा स्वामी शृङ्गसुभद्रसंझिके । चतुर्मासी स्थितो वर्ष-त्यब्दे सिद्धमहीभृतः ॥ ९७ ॥ अन्येऽपि यतयः शृङ्गे पृथक पृथग् गुहासु च । तस्थुः कर्तुं तपस्तीबं संसारोच्छेदहेतवे ॥ ९८ ॥ तत्रस्थे स्वामिनि व्याघ्रा-दयोऽपि श्वापदास्तदा । प्रभोर्वाणीं निशम्याशु वैरं सत्यजुरात्मना ॥९९ ॥ व्याघ्रादयोऽपि जीवास्तु लात्वाऽनशनमादरात् । शृण्वन्तः स्वामिनो वाणी ययुः स्वर्ग शुभाशयाः ॥१०॥
SSESSESSZISESS2222STSI
॥२७३॥
For Private and Personal Use Only