SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृ० ॥२६६॥ 1229252525252SESSISESTAS इतो यशोमती रात्रौ महास्वप्नाम चतुर्दश । ददर्श च ततः पत्नी पत्युः पार्थे न्यवेदयत् ॥१५॥ पूर्णेषु मात्सु नवसु सार्द्धाष्टमदिनेष्वथ । माघशुक्लाष्टमीरात्रौ शशाङ्के रोहिणीस्थिते ॥१६॥ असूत विजया पुत्रं स्वर्णवर्ण गजध्वजम् । तदाऽजनि क्षणं सौख्यं नारकाणामपि ध्रुवम् ॥१७॥ युग्मम् ॥ षट्पश्चाशद्दिग्कुमार्यादि-केन्द्रपितृभिः क्रमात् । जन्मोत्सवो मनोहारी विदधे सुखकन्नृणाम् ॥१८॥ अत्र विस्तरः स्वयं वाच्यः । यशोमती वरे घस्र प्रासूत तनयं वरम् । यदा तदा पिता चक्रे विस्तराज्जननोत्सवम् ।। तयोः सुन्वोरभून्नामाऽजितश्च सगरः क्रमात् । वर्धमानौ मुदं पित्रो-र्ददातेस्म निरन्तरम् ।। २० ॥ केकीभूय हयीभूय गजीभूय च केचन । अजितं रमयामासुः सुराः शक्रनिदेशतः ॥२१॥ अर्द्धपश्चमकोदण्ड-शतान्युचुङ्गविग्रहौ । अजितः सगरोऽभूतां रूपलावण्यशालिनौ ॥ २२॥ पित्रोमोदकृते कन्यां रूपसेनाभिधां वराम् । मत्वा भोगफलं स्वामी परिणिन्ये सत्सवम् ॥ २३ ॥ सगरो भूरिकन्यानां पितृमातृनिदेशतः । उद्वोढाऽजनि सत्कर्म योगान् मञ्जुलवासरे ॥ २४ ॥ गतेषु पूर्वलक्षेष्व-ष्टादशसु प्रभोः क्रमात् । जितशत्रुः पिता राज्य-मजिताय मुदा ददौ ।। २५ ॥ युवराजः सुमित्रोऽपि जितशत्रोनिदेशतः । स्वपट्टे सगरं सूनुं न्यवेशयद्वरोत्सवम् ॥ २६ ॥ यतः -“वीरं अरिट्ठ नेमि पासं मल्लि च वासुपुज्जं च । एए मोत्तण जिणे अवसेसा आसि रायाणो ॥१॥" LSPSRS2ST.S2S2S2752765258 For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy