________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥२६०॥
12525252525252SSISESEIS
हन्यमानान सुतान् पुत्री-ढिइभिीक्ष्य महीपतिः । धर्मध्यानान्मनाम् नैव चचालाचलमानसः ॥ ६२॥ ततस्ते मानुषीं रूपां त्यक्त्वा कृत्वा निजाकृतिम् । देवाङ्गने लसद्रप-धरे पोचतुरादरात् ॥ ६३ ।। जय त्वं वृषभस्वामि-कुलसागरचन्द्रमाः । जय सत्ववतां धुर्य ! जय चक्रीशनन्दन ! ॥६४ ॥ स्वर्गे संसदि शक्रेण सत्त्ववान् गदितोऽथवा । आवाभ्यां तु तथा ज्ञातो भवान् धर्मणि निश्चलः ॥६५॥ रुध्यतेऽन्धि मरुच्छैलः चाल्यते बध्यते मरुत् । यदि पुंसा तदा धर्म-ध्यानात्त्वं चाल्यते न हि ॥६६॥ स्तुवत्योस्तं तयोरेवं शक्रोऽभ्येत्य मणीमयीम् । वृष्टि कृत्वा प्रशंस्येति जय त्वं भूपते ! चिरम् ॥ ६७ ॥ मुकुटं कुण्डलाहार-मङ्गदं वरमुद्रिकाम् । तस्मै दत्त्वा प्रणम्याळी भक्त्या स्वर्गालये ययौ ॥ ६८ ॥ कुरु धर्म चिरं जैनं चिरं पालय भूतलम् । उपकारं चिरं कुयोः यशःसञ्चयमञ्जुलम् ॥ ६९ ॥ ताभ्यां प्रशंस्य भूपालं क्षमयित्वा मणीन् बहून् । वितीय नर्त्तनं कृत्वा गतं गीर्वाणसमनि ॥ ७० ॥ चतुर्दश्यष्टमीपर्व-मुख्येष्वहःसु सन्ततम् । तपः कुर्वन् नृपो नैव चाल्यते सुरदानवैः ॥ ७१ ॥ ज्ञानदर्शनचारित्र-धारिणः श्रावकोत्तमाः । स्थापिताश्चक्रिणा येन ये ये भोजनदानतः ॥ ७२ ।। तेभ्यः पृथक् पृथक स्वर्णोपवीतं रुचिराकृतिम् । वितीयं ददते भूपः स्वन्नं स्वीयनिकेतने ॥ ७३ ।। सिद्धाद्रौ विस्तराद् यात्रां कृत्वा सूर्ययशा नृपः । उद्धारं चकृवान् श्रीमयुगादिजिनसमनः ॥ ७४ ।।
mamimarimmmmmmmmmmmmmmmmon
SZS25252525252SPSASTSSTIS
॥२६०।
For Private and Personal Use Only