________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय
कल्पवृ०
॥२५७॥
SE2SSESZTESZESTLE
तयोः सक्तं नृपं ज्ञात्वा सचिवः प्राह ते प्रति । के भवन्त्यौ कुतः स्थाना-दायाते ! बदतं युवाम् ॥ २८॥ प्रोचतुस्ते सुते आवां भीमस्य व्योमगामिनः । नन्तुं युगादितीर्थेश-मायाते संघतः किल ॥ २९ ॥ मन्त्री जगौ समस्त्येष नृपः सूर्ययशा वरः । भोगमीष्टे भवन्तीभ्यां सह पाणिग्रहान्ननु ॥३०॥ पौत्रोऽसौ वृषभेशस्य भरतक्ष्मापनन्दनः । चञ्चत्कलौघरोचिष्णुः सौम्यः सद्गुणवान् बली ॥३१॥ सन्तुष्टो वृषभस्वामी भवत्योरिह साम्प्रतम् । यदि सूर्ययशा भूपे वत्रे च गुणसागरः ॥ ३२ ॥ यथा भातः शशाङ्केन कौमुदीक्षणदे अपि । युवां श्री सूर्ययशसा तथा भातं नरेश्वरः ॥ ३३ ॥ ताभ्यां सन्मानिते नाभि-पुत्रसूनोश्च साक्षिकम् । भरताङ्गभुवा चक्रे तयोः पाणिग्रहस्तदा ॥ ३४ ॥ तयोः प्रीतिरसाकृष्टो भरतक्ष्मापनन्दनः । अनुमेने सुखं स्वर्ग-नाथवद् धरणीस्थितः ॥३५॥ सेवमानो नृपः कामं धर्मार्थाबाधयाधिकं । पुमर्थरथमेकेन चक्रेणाचालयद् बलाद् ॥३६॥ अन्यदा नृपतिः पत्नी-द्वययुक्तः स्मरोपमः । पृष्टो गवाक्षगस्ताभ्यां पत्नीभ्यामिति सादरम् ॥३७॥ पटहोद्घोषणा पुर्यां कार्यतेऽत्र कथं जनैः । जगौ भूपश्चतुर्दश्यष्टमी पर्वद्वयं वरम् ॥ ३८ ॥ अष्टाह्निकाद्वयं पर्व चतुर्मासीत्रयं तथा । पर्व पर्युषणाख्यं च पर्वाण्येतान्यवक प्रभुः ॥३९॥ युग्मम् ॥ ज्ञानं हि प्रथमं रत्नं जायते शिवशर्मदम् । तस्याराधनमाप्तेन पञ्चमीपर्व जल्पितम् ॥ ४०॥
S22552SSPST2SSZISTS:SESE
॥२५७॥
For Private and Personal Use Only