________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुञ्जय कल्पवृ०
2252SSTSESTSESSI52525252
ततः होर्वशी देवी गीविनायक प्रति । स्वामी जल्पति यच्चात्र सत्यं तदपि विद्यते ॥१६॥ सप्तधातुमयाङ्गो य-श्चर्मदेहोऽन्नभक्षकः । सोऽपि देवरचाल्यो यत् श्रद्दधाति हि कोऽपि तत् ॥१७॥ एवं प्रोक्त्वोर्वशी रम्भा-सहिता स्वर्गतस्तदा । अयोध्यानगरीपावें समियाय कृतत्वरा ॥१८॥ रम्भायुतोर्वशी पाणौ वीणां विदधती स्वयम् । अयोध्यासन्निधौ चागात् प्रथमाईन्निकेतने ॥१९॥ गायन्ती मधुरं गीतं मोहयंती च पक्षिणः । उर्वशी विदधे चित्र-लिखितानिव सन्ततम् ॥२०॥ तस्या गीतं वरं गोधा-नकुलानिलभुगमुखाः । शृण्वानाश्चित्र लिखिता इवासंस्तत्र कानने ॥ २१ ॥ इतः सूर्ययशा वाह-केल्यर्थ निर्गतः पुरात् । तयोर्गीतरवान् वर्यान् शुश्राव भरताङ्गजः ॥२२॥ तद्गीतं मधुरं तत्र शृण्वानाः स्वतुरङ्गमाः । चलितं शेकिरे नैकं पदं गन्तुं तदाग्रतः ।। २३॥ असमर्थ बलं स्वीयं चलितुं च तदग्रतः । निरीक्ष्य धरणीनाथो-ऽपश्यद्देवाङ्गनाद्वयम् ॥२४॥ अनयो दतः सर्वे पशवोऽपि वनेऽभितः । आलेख्यलिखिता जाता अन्येषां का कथा पुनः ? ॥२५॥ * यतः-“देवा नादेन तुष्यन्ति धम्मों नादात् प्रजायते । नादान्महीपतेरथों नादानार्योऽपि वश्यगाः ॥१॥ गायन्त्यौ ते युगादीश-गेहेऽभ्येत्य मनोहरम् । चक्रतुनर्त्तनं यद्यद् यथा भूपश्चमत्कृतः ॥२६॥ प्रणम्य वृषभं देवं गच्छन्त्यौ ते सुराङ्गने । वीक्ष्य मारेषुविद्धोऽभूद् नृप आलेख्यचित्रवत् ॥ २७॥
SASTSISSESTSZZS2SSESSESE
॥ २५६॥
For Private and Personal Use Only