________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥२४८॥
25252525252SESSSISESEIS
एवमुक्तेऽपि शक्रेण सेवातः स्वामिनस्तदा । यदा च विरमतो नैव शेषो हृष्टोऽभवत्तदा ॥१९॥ प्रभोरास्येऽवतीयेति जगौ शेषोऽपि तौ प्रति । युवामागच्छतं पृष्ठौ मे वां राज्यं वितीर्यते ॥२०॥ इत्युक्त्वा सर्पराट् कृत्वा प्रभो रूपं मनोहरम् । वताढयपर्वतेऽनैपीन्नर्मि च विनर्मि समम् ॥ २१ ॥ रोहिणी-प्रज्ञप्त्याद्या विद्या वर्याः सहस्रशः । आदौ तयोरदाच्छेषः प्रभुरूपधरस्तदा ॥ २२ ॥ नमेः षष्टि पुराण्येव पञ्चाशद्विनमेस्तदा । दत्त्वाऽहिपो निजं रूपं प्रादुःकृत्य जगावदः ॥ २३ ॥ प्रभो रूपं मया कृत्वा भवतोभक्तयोः प्रभोः । एता विद्या बरा दत्ता ध्येयोऽतः प्रभुरन्वहम् ॥ २४ ॥ उक्त्वेति धरणे याते स्वस्थाने प्रभुसेवकौ । साधयित्वा च ता विद्या जातौ विद्याधरौ क्रमात् ॥ २५ ॥ "णमि-विणमीणं जायण णागिंदो विज्जदाण वेयड्ढे । उत्तर-दाहिणसेढी सट्टी पण्णास णगराई ॥२६॥ विद्याभिस्ताभिहृद्याभिर्दुर्जयौ तौ खगेश्वरौ । अभूतां भरतस्यापि त्रिखण्डाधिपतेस्तदा ॥२७॥ पुरे पुरे जिनावासाः कैलासाचलसोदराः । कारिता रैव्ययात् ताभ्यां खगाभ्यां बिम्बशोभिताः ॥ २८ ॥ शत्रुञ्जयादितीर्थेषु यात्रा भूरिधनव्ययात् । ताभ्यां विरचिता विद्या-धराभ्यां शिवशर्मदाः ॥२९॥ शेषप्रदत्तविद्याभि- नारूपाणि सन्ततम् । तयोवितन्वतोविद्या-धरवंशोऽभवत्तदा ॥३०॥ उक्तं च-' इक्षुकादिमहावंशा-श्चत्वारो विदिता भुवि । येष्वभवन् जिनाधीशाः पुण्यवन्तो जना अपि ॥१॥
2525PC2S2S252STISESTISSOS
॥२४८॥
For Private and Personal Use Only