________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ २४५ ॥
www.kobatirth.org
जीवहिंसां विधायापि खगा वैताढयवासिनः । तत्पातकच्छिदे तीर्थं निसेवन्ते निरन्तरम् ॥ १५ ॥ तदानीं तत्र वज्री - विद्याधरशिरोमणिः । लक्षविद्याद्यराssसेव्यो नन्तुं श्री वृषभं जिनम् ॥ १६ ॥ स्नात्रपूजा- ध्वजारोप- कृत्यानि जिनसद्मनि । विधाय वन्दते सर्वान् प्रत्येकं जिनसद्मसु ॥ १७ ॥ ततो विद्याधरः शत्रुञ्जयमाहात्म्यमादरात् । शुश्रावेति गुरूपान्ते भूरिजनसमन्वितः ॥ १८ ॥ यः शत्रुञ्जये तीर्थे कारयेज्जिनमन्दिरम् । तस्य स्वर्गापवर्गश्री- र्दुलभा नैव जायते ॥ १९ ॥ यच दानं सुभावेन दत्तेऽत्र सिद्धपर्वते । स एव लभते स्वर्गापवर्गश्रियमञ्जसा ॥ २० ॥
"
* यतः - “ शत्रुञ्जये जिने दृष्टे दुर्गतिद्वितयं क्षिपेत् । सागरोपमसहस्रं तु पूजास्नात्रविधानतः " ॥ १ ॥ 5 श्रुत्वेति श्रीजिनागारं स्फाटिकैरश्मभिर्वरैः । कारयित्वाऽऽदिदेवस्य बिम्बमस्थापयत् स च ॥ २१ ॥ तस्य सार्वगृहस्याssह्वा वज्रश्रीरिति मानवैः । व्यश्राणि विदधुर्विद्याधराद्याः पूजनं ततः ॥ २२ ॥ * क्रमात्तत्र स विद्याभृद् लात्वा चारित्रसम्पदम् । सर्वकर्मक्षयात् सिद्धो लक्षत्रययतिश्रितः ॥ २३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
525255255252525525575: S
॥ २४५ ॥