________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
12525SISESESE
विद्याभ्रष्टस्य सद्विद्यां कान्ति कीति मतिं श्रियम् । स्वर्गसोख्यानि दत्ते च सेविता हेलया ननु ॥ २५॥ शत्रुचयाश्रिया ये ये नदीहदद्रुमादयः । तेषां मृत्स्ना जलं पत्रं फलं पुष्पं प्रभावभृत् ॥ २६ ॥ युग्मम् ॥
- -- --
शत्रुम्जय कल्पवृ०
॥२२८॥
ISSSSSSS
श्री चद्रप्रभास-तीर्थसम्बन्धः । आकण्यतन्नृपश्चक्री शत्रुञ्जयशिलोच्चये । पुनर्यात्रां व्यधाद् भूरिश्रीव्ययाद् बहुसङ्घयुग् ॥१॥ अन्येयुस्तापसा भीम-मुख्याः प्रोचुः प्रभोः पुरः । कुत्राऽस्माकं शिवं भावि ततः स्वामी जगाविति ॥२॥ शत्रञ्जये गिरौ देव-शृङ्गे वो निवृतिः क्रमात् । कुर्वतां सत्तपो नूनं भविष्यति न संशयम् ॥३॥ ततस्ते तापसाः शत्रुञ्जये गत्वा प्रभूदिते । स्थाने चक्रुस्तदां तीनं तपःसुध्यानमानसाः ॥४॥ यथा तेषामशेषाणां कर्मणां क्षयतोऽभवत् । ज्ञानं मुक्तिः गतिश्चासीत् तदाऽन्येषां च देहिनाम् ॥५॥ तत्र स्थानेऽहतो गेहं स्फारमादिजिनेशितुः । कारयित्वाऽऽदिमश्चक्री तापसाह्र व्यधात्तदा ॥६॥ एकदा भरतश्चक्री चन्द्रप्रभजिने-शितुः । कारयित्वाऽऽलयं मूर्ति तत्र तस्य व्यधात् बराम् ॥७॥ तत्तीर्थमधुना लोके ख्यातं प्रभासनामतः । अद्यापि तस्य तीर्थस्य माहात्म्यं विद्यते महत् ॥ ८॥
LUSTUSEST25252SSTUSEST
॥२२८॥
For Private and Personal Use Only