________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kalassagarsun Gyanmandie
शत्रुनय कल्पवृ०
॥२२५॥
MEISHESDESESSESSESISE
साधोरप्युपकरणानि लात्वा विक्रीय वाडवः । वेश्याऽऽसक्तो ददौ तस्मै तद्धनं कामविह्वलः ॥४॥ तदैकेऽऽनाहतेनोक्तं गुरु-देवधनादनात् । लभते नरकं घोरं जीवः संसारभाग् भवेत् ॥५॥ देवद्रव्यं गुरुद्रव्यं दहेदाऽऽसप्तमं कुलम् । विषं वा तैलसम्मिश्रं भोज्यं देवधनं न तु ॥६॥ देवद्रव्यविनाशेन प्रथमं नरकं व्रजेत् । सप्तवारान्नरस्तीवं दुःखलक्षं व्यथार्दितः ॥७॥ यथान्ने विषसंसर्गों दुग्धे कञ्जिकसङ्गमः । तथाऽऽत्मनो धनेनोच्चैः संसर्गों गुरुसम्पदाम् ॥ ८॥ जीविताशाऽस्ति या देव-गुरुद्रव्येण देहिनः । धत्तुरकरमोन्मिश्च-विद्यास्वादोद्भवा हि सा ॥९॥ "भक्खणे देवदव्वस्स, परत्थीगमणेण य । सत्तमं नरयं जंति, सत्तवारा य गोयमा !" ॥१०॥ वारितोऽपि द्विजोऽन्येन देवगुर्वोर्धनं हरन् । न तस्थौ नरके तस्मात् पापान्मृत्वाऽगमत् क्रमात् ॥११॥ ततो निर्गत्य चाण्डालो भूत्वा कृत्वा तमो बहु । पुनः श्वभ्रे ययौ विप्र-जीवोऽहिरभवत्ततः ॥१२॥ सोऽप्येकदा मुनेरास्यान् म्रियन् श्रुत्वा नमस्कृतिम् । महाकालाभिधः पुत्र स्तवाजनिष्ट साम्प्रतम् ॥ १३ ॥
LS2S5IGCPSS255.255259
॥२२५॥
For Private and Personal Use Only