SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ ६॥ 124252525252525t www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्रासीन मदनः क्षोणी- पतिययैकमन्दिरम् । तथाऽपात् पृथिवीं सौख्य-भाजोऽभूवन् यथा प्रजाः ॥ २ ॥ यतः दुर्बलानामनाथानां बालवृद्धतपस्विनाम् | अन्यायैः परिभूतानां सर्वेषां पार्थिवो गुरुः ॥ १ ॥ तस्य प्रेमवती पत्नी मन्त्रीशो मतिसागरः | सूराहो नन्दनो वर्य रूपोऽभूवभमी क्रमात् ॥ ३ ॥ साधयन् विषयान् भूपः प्रत्यर्थिपार्थिवान् बहून् । स्वीयाज्ञां ग्राहयामासाऽर्जयामास यशोऽमलम् ॥ ४ ॥ एकदा भूप उद्याने गतः सारपरिच्छदः । कुर्वन् क्रीडां ददशैंकां श्वेताम्बरधरां स्त्रियम् ॥ ५ ॥ प्राक्षीद् भूपतिर्नारी काऽसौ त्वं कुत आगता ? ! स्त्री प्राह किं तवेदानीं नामादिपृच्छनैरिह || ६ || राजाssष्ट करोषि त्वं किं लोकस्य सुखासुखे । नार्यामि गृहे यस्य तस्य स्यात् कमला बहु ॥ ७ ॥ राजाऽवक् तर्हि मे सद्म कृतार्थय निजागमात् । देव्यभाणीत् प्रगे गेहे समेष्यामि तवेश्वर ! ॥ ८ ॥ हृष्टो नृपो गृहेऽभ्येत्य द्वितीये दिवसे प्रगे । यावद्विलोकते देव्या आगमं संसदि स्थितः ॥ ९॥ तावद् भम्भारवं कुर्वन् नरोऽभ्येत्य जगावदः । स्वामिन्! सिंहरथोsरिस्त्वद्राज्यं लातुमिहागमत् ॥ १० ॥ भूप उत्थाय सन्न युद्धं कर्तुं पुराद् बहिः । ययौ यावद्रियोः सैन्यं महद्वीक्ष्येत्यचिन्तयत् ॥ ११ ॥ यह करवै युद्ध-मनेन रिपुणा समम् । तदाऽहं हत एवास्मि नूनं स्त्रीजल्पनच्छलात् ॥ १२ ॥ नंस्यते साम्प्रतं चेद्धि तदा मे जीवितं भवेत् । जीवन् पुनर्नरो भद्र-शतानि लभते किल ॥ १३ ॥ For Private and Personal Use Only PPSP525252525252552525225
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy