________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय
कल्पवृ०
॥१९९॥
RTISTSSETSESESZTITSESE
तत्राप्यायान्तमालोक्य सर्प यति त्रिविक्रमः । रुष्टो ज्वलनसाच्चक्रे तेजोलेश्याप्रयोगतः ॥१८५ ॥ * यतः-अपूर्वः कोऽपि कोपाग्निः सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहाद् वर्द्धतेऽन्यस्य वारितः ॥१८६॥ * "तं नत्थि घरं तं नत्थि राउल देउलंपि तं नत्थि । जत्थ अकारणकुविआ दो तिनि खला न दीसंति ॥ १८७॥ अकामनिर्जरायोगात् क्षिपन् कर्म पुरार्जितम् । अहिजीवो द्विजो रोरोऽभवद्राजगृहे पुरे ॥१८८॥ यतः-"संसारबीजभूतानां कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥ १८९॥" ज्ञेया सकामा यमिना-मकामास्त्वन्यदेहिनाम् कर्मणां फलवत्पाको यदुपायात्स्वतोऽपि च ।। १९० ॥ इत्यादि पर्यटन्नन्यदा ग्रामाद् ग्राम यतिस्त्रिविक्रमः । मध्येराजगृहं भिक्षा-कृते वाम सबसु ॥ १९१ ।। कर्मयोगाद् भ्रमन् गेहे गेहे शुद्धान्नहेतवे । अहिजीवस्य विप्रस्य दृग्गोचरं समीयिवान् ॥ १९२ ।। स द्विजो जातरुइ हन्तुं तं साधुमीहतेतराम् । ग्राममध्ये न शक्नोति हन्तुं भूपतिभीतितः ॥ १९३ ॥ * यतः-"राजदण्डभयात्पापं नाचरत्यधमो जनः । परलोकभयान्मध्यः स्वभावादेव नोत्तमः ॥१९४॥5 भिक्षां लात्वा बहिर्यातं तं पुर्याः साधुशेखरम् । निहन्तुं स द्विजस्तत्र ययौ यष्टिसखा रुषा ॥ १९५॥ तत्रादौ बहुशो विप्रः क्रूरजल्पनतः परम् । कृत्वोपसर्गमादाय तस्य हन्तुमधावत ॥१९६ ।। भिक्षयन्तं यति यष्टि-मुष्टिभिः स द्विजाधमः । यदा न व्यरमद् हिंसन् तदा क्रुद्धोऽभवद्यतिः ॥ १९७ ॥
CS255252525252525:5TSA
॥१९९॥
For Private and Personal Use Only