________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
mmmmmmm
पदे पदे विलीयन्ते भवकोटिभवान्यपि । पापानि पुण्डरीकाद्रेर्यात्रां प्रति यियासताम् ॥ ३१ ॥ श्रत्वेति तीर्थमाहात्म्यं भविनी भूरिशस्तदा । तीर्थङ्करान्तिके दीक्षां ललुः संसारतारिणीम् ॥३२॥ तदा तत्र प्रजापालो महीपालो जिनेशितुः । प्रासादं कारयामास भवपर्वतसोदरम् ।। ३३ ॥ चन्द्र वेगजिनाधीशः साधुकोटिद्वयान्वितः । शत्रुञ्जये ययौ मुक्ति सर्वकर्मव्रजक्षयात् ॥ ३४ ॥ शत्रुञ्जयावनिस्पर्शाज जीवा भव्याः शुभोदयाः : पुण्यपालनराधीशा इब गच्छन्ति निवृत्तिम् ॥ ३५ ॥
शत्रुञ्जय कल्पवृ०
ISISSSSSSSSSES
॥१८०॥
श्री पुण्यपाल कथा । तस्येदं कथानकं तथाहिपुण्यपुर्या नृपः पुण्य-पालः पुण्यकरः सदा । पालयमास भूपीठं न्यायमार्ग प्रवर्तयन् ॥ ३६ ।। तस्यासीत् कमला पत्नी शीलादिगुणशालिनी । पुत्रः पद्मरथो नाम्ना धाम्ना मन्मथसन्निभः ॥३७॥ राजान्यदा सभासीनो मन्त्रिसामन्तसंयुतः । स्वदेश परदेशादि-वार्ता पप्रच्छ मन्त्रिणः ॥ ३८ ॥ तदा वैदेशिको-मर्त्य एकस्तत्रागतो नटः । प्रणम्य भूपति तस्था-वग्रे पश्यन् नृपाननम् ॥३९॥
minimummmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
For Private and Personal Use Only