________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजय
कल्पवृ०
॥ १७९ ॥
25255252
www.kobatirth.org
पद्माsन्दा सुखं सुप्ता महास्वप्नान् चतुर्दश । समालोक्य जजागार मध्यरात्रे शुभे क्षणे ॥ १८ ॥ क्रमात्पुत्रं प्रसूते स्म शुभवेलासु सुन्दरम् । आदाविन्द्रो व्यधाज्जन्मोत्सवं निर्जरपर्वते ॥ १९ ॥ प्रातर्जन्मोत्सवं चक्रे पिता सूनोर्महत्तमम् । ततो नाम ददौ चन्द्र-वेगेति स्वजनान्वितः ॥ २० ॥ चन्द्रवेगः क्रमात् प्राप्त यौवनो मेदिनीभुजा । भूपानां भूरिशः कन्याः सोत्सवं परिणायितः ॥ २१ ॥ जातेषु भूरि पुत्रेषु चन्द्रवेगो नृपाङ्गजः । विख्यातोऽजनि सर्वत्र विनयादिगुणसुन्दरः ॥ २२ ॥ ततः पित्रा ददे राज्यं चन्द्रवेगाय सूनवे । चन्द्रवेगव सर्वेषां भ्रातृणामभवन्मतः ॥ २३ ॥ पृथुदेशप्रदानेन चन्द्रवेगो नरेश्वरः । रञ्जयामास निःशेषान् भ्रातृन् सन्मानदानतः ॥ २४ ॥ पञ्चमात् स्वर्गतोऽभ्येत्य तदा सारस्वतैः सुरैः । प्रवर्त्तय प्रभो ! धर्म्म- तीर्थमित्युदितं स्फुटम् ॥ २५ ॥ चन्द्रवेगस्ततो राज्यं वितीर्य वृद्धसूनवे । धरानृणकृते दानं वर्षं यावद्ददौ वरम् ॥ २६ ॥ ला (वा) दीक्षामयं भूरि-कर्म्मक्षपणतोऽन्तिमम् । अत्राप केवलज्ञानं लोकालोकप्रकाशकम् ॥ २७ ॥ बोधयन् भविनो भूरीन् ग्रामे ग्रामे पुरे पुरे । पाद्मस्तीर्थङ्करः शत्रुञ्जयाद्रौ समवासरत् ॥ २८ ॥ तदेति पुरतो भूरि भन्यानां देहिनां स्फुटम् । उपदेशं ददौ तीर्थङ्करो मधुरया गिरा ।। २९ ।। तावद् गर्जति हत्यादि-पातकानीह सर्वतः । यावत् शत्रुञ्जयेत्याख्या श्रूयते न गुरोर्मुखात् ॥ ३० ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
1755255252525525525525525
॥ १७९ ॥