________________
Shri Mahavir Jain Aradhana Kendra
शत्रुब्जय
कल्पवृ० ॥ १७३ ॥
52525225252552
2525525
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुःषष्टिमिता एते इन्द्रा देवैर्वृता घनैः । शत्रुञ्जये जगन्नाथ - भूषितं नेमुरादरात् ॥ ८ ॥ * पापिनां शल्यरूपोऽयं धर्मिणां सर्वशर्मदः । कामिनां कामितं दाता विद्यतेऽयं गिरिर्वरः ॥ ९ ॥ * विना तपो विना दानं विनाऽच शुभभावतः । केवलं स्पर्शनं सिद्ध क्षेत्रस्याक्षय सौख्यदम् ॥ १० ॥ एवं प्रभोर्वचः श्रृण्वन् लेपः संयतपुङ्गवः । संग्राप केवलज्ञानं लोकालोकावलोककम् ॥ ११ ॥ तस्यर्षेः केवलज्ञानोत्सवं देवान् वितन्वतः । ज्ञात्वा भव्यप्रबोधाय वीरं प्रपच्छ गौतमः ॥ १२ ॥ भगवन् ! ज्ञानमभूद्यस्या-धुना कोऽसौ तपोधनः । लले तेन कथं दीक्षा कथ क्षिप्तं तमोऽखिलम् ? ॥ १३ ॥ * यतः - 'भद्दो विणीअविणओ पढमगणहरो समत्तसुअनाणी । जाणतोवि तमत्थं विम्हिअहियओ सुणइ सच्वं ' ॥ १४ ॥ प्रभुः प्राहेन्द्रभूते ! त्वं श्रृणु सम्प्रति गौतम ! | पुरे राजगृहे लेप श्रेष्ठ मिथ्येक्षणोऽभवत् ॥ १५ ॥ शिवभूतेर्गुरोः पार्श्वे लेपः श्रृण्वन् वृषं सदा । वापी-कूप-तडागादि- पुण्यस्थानान्यकारयत् ।। १६ ।। स्नानं कृत्वातिभुङ्क्तेस्म चक्रे राज्यदनं पुनः । बुभुजे कन्दमूलाद्य-भक्ष्याणि च निरन्तरम् ॥ १७ ॥ यदा यदा समायाति शिवभूतिस्तपोधनः । तदेत्यभिमुखं पञ्च योजनानि सुभक्तितः ॥ १८ ॥ अन्येद्युः शिवभूतौ तु गते चान्यत्र नीवृति | अहं तु समवासार्धं पुरोधाने मनोहरे ॥ १९ ॥ श्रेणिकक्षोणिपालाद्या बहवो मानवास्तदा । ममोपान्ते वृषं श्रोतु मीयुर्निजनिजालयात् ॥ २० ॥
For Private and Personal Use Only
ac525525525252552552552521
॥ १७३ ॥