________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शत्रुञ्जय
कल्पवृक्ष
॥१७०॥
125TSSPSSESESESTSASTETS2
श्रीदः श्रेष्ठयन्यदा चन्द्रसूनोः पाणिमहोत्सवे । रथाभास पक्कान्न मुखां रसपती बराम् ॥११४ ॥ मध्याह्ने श्रेष्ठिनस्तस्य गृहे संयतयामलम् । विहर्तुमागमद्यावत्तावच्चन्द्रो व्यचिन्तयत् ॥११५॥ अद्य मे जायमानेऽस्मि-न्नुद्वाहे सदने पितुः । मोदकादिकरोचिष्णुर्जाता रसवती वरा ॥११६॥ यद्येतयोलसतसाध्वोर्दीयतेऽन्नं च किञ्चन । तदा मे जायते वयं जनुश्च पाणिपीडनम् ॥११७ ॥ * यत:-"पश्चात्तं परैर्दत्तं लभ्यते वा न लभ्यते । स्वहस्तेन च यद्दत्तं लभ्यते तन्न संशयः ॥ ११८॥" निर्भाग्यविभवैर्वप्तुं सप्तक्षेत्र्यां न लभ्यते । यत्र पात्रादयोप्युप्ताः फलं यच्छंति वाञ्छितम् ॥ ११९॥ ध्यात्वेति चन्द्र उत्थाय स्थालं मोदकपूरितम् । प्रवृत्ती ददितुं साधुयुग्मं गृहाति तन्न हि ॥१२०॥ बलेन मोदकान् पश्च चन्द्रः साध्वोर्वितीर्णवान् । विशुद्धमन्यमन्नं च पानं च वरभावतः ॥१२१ ॥ तदाऽऽहाग्रेतनः साधु-रत्रैयुः सोमसूरयः । परिवारो बहुस्तेषां विद्यते चन्द्र ! सम्प्रति ॥१२२ ॥ यस्य कल्पिष्यते साधोर्मोदकादि विशुद्धिभाग् । दास्यते च मया तस्मै पुण्यं तव भविष्यति ॥ १२३ ॥ तदा तत्र स्थितो भीमो भृत्यो दृष्ट्वा व्यचिन्तयत । मोदकादि ददौ चन्द्रः साधोरेष वरस्ततः ॥ १२४ ॥ मोदकाद्यस्ति मे चेद्धि तदा दास्येऽहमप्यहो ? । किं कुर्वे किं करोम्यत्र श्रेष्ठिनः तुच्छपुण्यवान् ॥१२५॥ * यतः-यदुपात्तमन्यजन्मनि शुभमशुभं वा स्वकर्मपरिणत्या । सच्छक्यमन्यथा नैव कर्त्त देवासुरैरपि ॥१२६ ॥
BST SETSSESZSEGESTSS25525
॥१७०॥
For Private and Personal Use Only