________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
शत्रुञ्जय कल्पवृ०
BOTSSESTETSS2252252.
अश्वरूपधरं योगी गुणराजं मनोहरम् । धनाल्लात्वा रुरोहाऽऽशु कशापातैरताडयत् ॥ ७५ ॥ ताडयंस्तुरगं योगी वक्तीति तं प्रति स्फुटम् । अवज्ञा मे कुरुष्व त्वं प्रतिज्ञाया विलोपनात् ॥ ७६ ।। सायं यावत्तुरंगं तं प्रकुट्टयन् कशादिभिः । स्नानं कर्तुं ययौ योगी जलपूणे सरोवरे ॥ ७७ ॥ प्रविष्टे सवनं कर्तुं तस्मिन् योगिनि तत्क्षणात् । मत्स्यरूपधरो भूत्वा तायः सरसि सोऽविशत् ॥ ७८ ।। बकरूपधरो योगी मत्स्यं हन्तुं यदेहते । तदा मत्स्यो जलस्यान्त-विंशते भयतो भृशम् ॥ ७९ ॥ ततो मत्स्योऽजनिष्टैण-रूपभृद् विपिने क्वचित् । ततो बकोऽभवत् सिंह-रूपस्तं हन्तुमुद्यतः ॥८॥ ततो मृगो व्यधात् कीर-रूपं माकन्दपादपे । ततो सिंहोऽभवत् श्येन रूपस्तं हन्तुमुद्यतः ॥ ८१ ॥ श्येनं निहन्तुमायान्तं दृष्ट्वा नंष्ट्वा तदा शुकः । गवाक्षस्थमहीपाल पत्न्या हस्ते छुपाविशत् ॥ ८२ ॥ श्येनोऽशक्तः शुकं हन्तु-मोतुरूपधरोऽजनि । ओतुः शुकस्य परितो बभ्राम वधवाञ्छ्या ।। ८३ ॥ तत्र वृश्चिकसर्पादि-रूपाणि बहुशस्तदा । योगी कृत्वा शुकं हन्तुं राज्ञीहस्तस्थमीहते ॥ ८४ ॥ ततः एकावलीहार-रूपभृत् कीर एव सः । राज्ञीहस्ते समागत्याऽकस्मात्तस्थौ समाहितः ॥ ८५ ॥ अनालोक्य शुकं रानी दुःखिता यावताऽजनि । तावद्धस्तागतं हारं वीक्ष्य राज्योऽजनिष्ट मुद् ॥८६॥ राश्या हृदि निजे हारे क्षिप्ते सति स योगिराट् । अशक्तो हिंसितुं चक्रे नर्तक्या रूपमद्भुतम् ॥ ८७ ॥
PSZS2922 SPSESEISSRISE
॥१६७
For Private and Personal Use Only