________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुजय कल्पवृ०
॥१६४॥
RESTSZETSESESETTES
योग्यवक् तनयावेतौ मसमर्पय सम्प्रति । येन सर्वाः कलाः कल्पाः (ल्याः) शिक्षयाम्येतयोर्दृतम् ॥ ३६॥ श्रेष्ठी बभाण तनयावर्येते भवतः कथं ? । त्वं तु लात्वा मम सुतौ नष्ट्वा यास्यसि दूरतः ॥ ३७॥ योग्यवक शिक्षयिष्यामि तथा ते तनयौ कलाः । यथा ताभ्यां महीशाद्या नरा रज्यन्त एव च ॥३८॥ तयोर्मध्ये भवेद् वर्य-तमो यस्तनयस्तव । स एव भवता ग्राह्यो देयोऽन्यो मम नैगम ! ॥ ३९ ॥ एवं चेत् क्रियते श्रेष्ठि-स्त्वया ममोदितं ध्रुवम् । तदा तवालये लक्ष्मीमयसी भवति ध्रुवम् ॥ ४०॥ मयैव शिक्षिता नूनं मनुजाः सुकलाः कलाः । इलाध्या भवन्ति विश्वेषां जनानां भूभुजामपि ॥ ४१ ।। * अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुषविशेष प्राप्ता भवन्ति योग्या अयोग्याश्च ॥४२॥ * वाजि-वारण-लोहानां काष्ठ-पाषाण-वाससाम् । नारी-पुरुष-तोयानामन्तरं विद्यते बहु ॥४३॥ ततः श्रेष्ठी ददौ तस्मै योगिने तनयौ निजौ । कलाशिक्षाकृते पत्न्या सार्दू विचार्य तत्क्षणात् ॥४४॥
उच्चयन्ताचले गत्वा योगी कलकलाभिधः । श्रेष्ठिपुत्रौ कला रम्या अशिक्षयदनेकशः ॥४५॥ | आद्यः श्रेष्ठिसुतः प्रातः कृतैककगलाम्भसा | मुखात् पतित दीनार शतपञ्चकमञ्जसा ।। ४६ ॥ द्वितीयः करभ्येभाश्व-पत्त्यादि रुचिरं बलम् । विधाय विक्रयात्तेषा-मर्जयद् बहुशो धनम् ॥४७॥ युग्मम् ॥ योगिना कथिते घस्र श्रेष्ठिनोऽग्रे च तौ सुतौ । आनीतौ स्वकलाः सर्वा दर्शयामासतुः प्रगे ॥४८॥
PSS159TS2S2SSTAS2S2552
॥१६४॥
For Private and Personal Use Only