________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SESE
शत्रुञ्जय कल्पवृ०
॥१२८॥
BASTOSESTSESTSZSZSESTSESEI
अर्जयन् कमलां कालो, विश्राम लाति नो यदा । तदा रमा प्रिया प्राह कष्ट कि क्रियतेऽधिकम् ? ॥१०॥ * यतः-" अर्थानामर्जने दुःख-मर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिग् द्रव्यं दुःखभाजनम् ॥११॥5 परत्र गच्छतः कस्य ( कैश्चित् ) सह याति रमा नहि । तेन श्रीय॑यते सप्त-क्षेत्रेषु स्यात् यतः स्थिरा ॥ १२ ॥ एवं बहुपदेशेषु, दत्तेषु प्रियया तदा । कालः स्तोकं धनं नैव, विततार वृषे क्वचित् ॥१३॥ कालेऽन्यदा प्रसुप्तस्य, स्वप्ने श्रीदेवतेत्यवग् । यास्याम्यहं त्वदावासात. पुण्यं क्षीणं यतस्तव ॥१४॥ इह त्वया न दानादि-धर्मः स्तोकोऽपि निर्ममे । यस्य पुण्यं भवेत्तस्य गृहे तिष्ठाम्यहं सदा ॥१५॥ * यतः-'गुरवो यत्र पूज्यन्ते वित्तं यत्र नयार्जितम् । अदन्तकलहो यत्र तत्र शक्र ! वसाम्यहम् ' ॥१६॥ * ' द्यूतपोषी निजद्वेषी धातुवादी सदाऽलसः । आयव्ययम(स्या)नालोची तत्र तिष्ठाम्यहं नहि ॥१७॥ प्रातः पत्न्याः पुरः प्रोक्ते नैशे वृत्ते श्रियोदिते । प्रिया प्राह मयाऽप्युक्तं व्यय धर्मे धनं प्रिय ! ॥१८॥ अधुना व्ययते लक्ष्मी दानधर्मे पते ! यदि । तदा स्थिरा भवेल्लक्ष्मीः पुण्यबद्धा यतो रमा ॥१९॥ व्ययित्वा निखिला लक्ष्मी क्षेत्रेषु सप्तसु क्रमात् । रात्री स्मृतनमस्कारः सुष्वाप सुखनिद्रया ॥२०॥ * यतः-जे कुच्छिएसु दाणं दिति सुहभोगकारणनिमित्तं । ते कुंजराइ जाया भुंजंति हि दाणज सोक्खं ॥२१॥ * जह खेतम्मि सुकिद्वे वइढइ (धन्नं) न तस्स परिहाणी । एवं सुसाहुदाणे विउलं पुण्णं समज्जिणइ ।। २२॥5
ISS2SDSETSZI
।।१२८॥
For Private and Personal Use Only