________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शत्रुजय
कल्पवृ०
॥१२०॥
ELTSSISTSETSESESSESTSEI
॥ श्री सुपाजिन-कथा ॥ वाणारस्यां प्रतिष्ठस्य भूपस्य पृथिवी प्रिया । प्राप्त तनयं वर्य-रूपलक्षणलक्षितम् ॥१॥ शक्रपितृकृते जन्मोत्सवे प्रतिष्ठभूपतिः । सुपार्श्व इति नामाऽदात् सूनोः सज्जनसाक्षिकम् ॥२॥ राज्यं प्राप्य क्रमात्यक्त्वा दीक्षां लात्वा तमःक्षयात् । प्राप्तज्ञानः प्रभुभव्य-बोधाय व्यहरद् भुवि ॥३॥
अत्र सुपार्श्वचरित्रं ज्ञान-प्राप्ति यावद् वाच्यम् । सततं विहरन् पृथ्व्या-मन्येद्यः सिद्धपर्वते । बोधाय भव्यजीवानां सुपार्श्वः समवासरत् ॥४॥ तत्र सुपार्श्वतीर्थेशो मेघगम्भीरघोषया । वाण्या धर्मोपदेशं तु प्रददौ मुक्तिशर्मदम् ॥५॥ * चरिअं च कपि च आहरणं दुविहमेव नायव्यं । भव्वजीवबोहत्थं इंधणमिव ओअणट्ठाए ॥६॥ हस्ती बद्धो यथा दुःखी मुक्तः स्यात् सुखवान् यथा । तथैव कर्मणा जीवो जायते जगति ध्रुवम् ॥७॥ भीमघोषाभिधारण्ये सप्तशत्या करेणुभिः । युक्तो मतङ्गजो मत्तः सल्लकीर्भक्षयन्नभूत् ॥८॥ तस्योपान्तेऽन्यदाऽभ्येत्योन्दरः प्राह गजाधिपम् । यदि ते रोचते सेवां तदा करोम्यहं सदा ॥९॥ अहं ते रक्षणं कुर्वे दुष्टारातिसमीपतः । मया तु रक्षिताः सिंहा-दयः सत्त्वा अनेकशः ॥१०॥ हसन्निभो जगौ त्वं चेन्मां रक्षसि कुकष्टतः । तदाऽस्माकं समं कार्य सिद्धमुन्दर ! वेगतः ॥११॥
LPS2S22252SSEGOSZ5RSES
||१२०॥
For Private and Personal Use Only