________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsun Gyanmandir
mmmmmmmmm
शत्रुञ्जय कल्पवृ०
॥११९॥
PSS22S2SSES25252525252
ततो मन्त्रीश्वराः प्रोचु भो ! स्तेना यूयकं ध्रुवम् । धनं जगृहिथाऽस्यवा-पयतास्मै ततः किल ॥३२॥ ततस्तान कुट्टयित्वाऽलं मन्त्रीशास्तस्य तद् धनम् । निखिलं दापयामासु-चौरेभ्यः प्रसभं तदा ॥ ३३ ॥ ततस्ते तस्करा लक्ष्मी-हरणान्मेदिनीभुजा । स्वदेशं त्याजिता धर्मः श्रेष्ठी सन्मानितः पुनः ॥३४॥ धर्मों द्विगुणमूल्येन तद्वस्तु निखिलं तदा । विक्रीय टङ्कान् लक्ष मर्जयामासः कर्मतः ॥३५॥ क्षेत्रेषु सप्तसु ततो व्ययन् स्वं विभवं तदा । धर्मश्चकार सद्धर्म प्रतिपन्नं पुरापि यत् ॥३६॥ * यतः-' वरमग्गिम्मि पवेसो वरं विसुद्धेण कम्मुणा मरणं । मा गहिअव्वयभंगो मा जीअं खलियसीलस्स' ॥३७॥ अर्चयित्वाऽन्यदा देवं ध्यानं धर्मस्य कुर्वतः । उत्पन्नं केवलज्ञानं सर्वविश्वप्रकाशकम् ॥ ३८ ॥ देवतादत्तलिङ्गः स निविष्टः स्वर्णविष्टरे । भव्येभ्यः प्रददौ धर्मो-पदेशं शिवशर्मदम् ॥ ३९ ।। स धर्मः केवली भव्यान् बोधयन् भूरिशो भुवि । भूरिसाधुयुतः शत्रुञ्जये तीर्थे समागमत् ॥ ४० ॥ सहस्रसाधुसंयुक्तः स धर्मः केवली तदा । शत्रुञ्जयेऽत्र कल्याण-पुरीमेयुः क्रमाच्च ते ॥४१॥ इत्यादिदेशनां पद्म-प्रभस्याकर्ण्य शर्मदाम् । अनेके भविनः स्वर्गे मुक्तिपुर्या ययुस्तदा ॥ ४२ ॥
mmmmmmmmmmmmmmmm
SEGUISTISESTSPS52SSISSES
m
mmmmmmmm
For Private and Personal Use Only