________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ १०२ ॥
352252552552
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाभिधे श्वभ्रे प्रस्तटे रोरकाह्वये । चतुरष्टसहस्राब्दीं पालयित्वाऽऽयुषः स्थितिम् ॥ ५३ ॥ श्रेणिकस्यासुमान् भद्रा देव्याः कुक्षौ शुभे क्षणे । अवतरिष्यति क्षोणीं क्षणं सुशं (स्थां ) करिष्यति ॥५४॥ उच्चेषु रविचन्द्रादि-ग्रहेषु सकलेष्वपि । शुक्लचैत्रत्रयोदश्यां भद्रा साविष्यते सुतम् ॥ ५५ ॥
करिष्यतो हरि क्ष्माप तस्य जन्मोत्सवं क्रमात् । पद्मनाभेति भूपालोऽभिधां दास्यति सूत्सवम् ॥ ५६ ॥ सप्तहस्ततनुः स्वर्ण-वर्णः पश्चाननध्वजः । पद्मनाभमहीभुग्भूः सेविष्यते नृपादिभिः ॥ ५७ ॥ वर्द्धमानः क्रमाद्वैरि-मर्दनक्षितिभुक्सुताम् । पद्मनाभकुमारः सः समहं परिणेष्यति ॥ ५८ ॥ त्रिंशद्वर्षेषु जातेषु मार्गकृष्णदशम्यथ । पद्मनाभस्य दीक्षाया दात्री क्रमाद्भविष्यति ॥ ५९ ॥ वैशाखस्य सिते पक्षे दशमी ज्ञानदायिनी । भविष्यति क्रमात् पद्मनाभस्य प्रथमार्हतः ॥ ६० ॥ कृते सालत्रये देवैः रूपय स्वर्ण मणीमये । उपविष्टो जिनो धर्मं कथयिष्यति मुक्तिदम् ॥ ६१ ॥
देशनान्ते जिनो गच्छ नायकान् स्थापयिष्यति । ग्राहयिष्यति सुश्राद्ध-धर्म श्राद्धान् बहूनथ ॥ ६२ ॥ प्रतिबोध्य चिरं भव्य-जीवान् धर्मे शिवदे । कार्त्तिकामावसी - रात्रौ गमिष्यति स निर्वृतिम् ॥ ६३ ॥ * सूरदेवः सुपार्श्वश्व स्वयंप्रभो जिनेश्वरः । सर्वानुभूतिः सर्वज्ञो देव श्रुतोदयौ जिनौ ॥ ६४ ॥ 5 * पेढालः पोट्टिलश्चापि श्रीशतकीर्त्तिसुव्रतौ । अममो निष्कषायोsथ निष्पुलाकश्च निर्ममः ॥ ६५ ॥
For Private and Personal Use Only
3525252525252952425225
॥ १०२ ॥