________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
mmmon
शत्रुञ्जय कल्पवृ०
॥९९॥
ISESTSESESTSISSE ST2SSESTS
भूपाऽऽवासे ज्वलत्याशु भम्भा लात्वाऽऽदिमः सुतः । निर्ययौ निर्ययुश्चान्ये दुकुलादि गृहान्तरात् ॥१५॥ ततो भूपो जगौ रे रे ! श्रेणिकाऽतो व्रजाऽधुना । भम्भा त्वं वादयन् स्वीयोदरं भर गृहे गृहे ॥ १६ ॥ आकारणं विना नात्राऽऽगन्तव्यं भवता पुनः । त्वया शुना समं भुक्त मतोऽसि त्वं शुना समः ॥ १७ ॥ श्रेणिकोऽथ निशि च्छन्नं निर्गत्य स्वपुरात्तदा । गतोऽटव्यां ददशैंकं स्वप्नं सत्सातदायकम् ॥१८॥ कल्ये गच्छन्नदीतीरे दृक्ष्यस्यश्वत्थ-सागरौ । तन्मूलयोः समस्त्येका शिला मध्ये महत्तमा ॥१९॥ मणयोऽष्टादश प्रौढ-प्रभावाः सन्ति सुन्दराः । पयोग्निव्याघ्रसिंहेभ-शाकिनीस्तम्भकारकाः ॥२०॥ अन्धत्वशूलशीति-स्फेटका वश्यकारकाः । मौढयोत्पादकसन्तान वर्धकः कमलाप्रदः ॥ २१ ॥ भयहत् प्रीतिदः पुष्टि शान्तिदो रोगहारकः । एतान् मणीन् गृहीत्वा त्वं श्रेणिकोऽदुःखवान् भव ॥ २२ ॥ प्रातस्तांस्तान् मणीन् लात्वा ग्रन्थौ बवा पृथक पृथग् । प्रभावं च स्थिरीकृत्य श्रेणिकोऽचलदग्रतः ।। २३ ।। भिल्लथेका मिलिता मार्गे प्राह मां वृणु सत्तम ! । भिल्लोऽस्ति मत्पिता लक्ष-ग्रामस्वामी मनोरम ! ॥२४॥ अहं बिभेमि नो व्याघ्राद् भूतात् प्रेतात् मतङ्गजात् । अन्यस्मादपि नो कस्माद् भीति मेंऽस्त्यस्ति वाऽग्नितः ।। श्रेणिकोऽवग न ते पाणि-ग्राहं कुर्वेऽत्र भामिनि ! । अहं भूपसुतोऽस्मि त्वं भिल्लीत्येवं कथं वद ॥ २६॥ एवं जल्पन कुमारस्तु तत्राऽऽयाते दवानले । स्मृत्वा वह्निमणिं शीघ्रं प्रविश्याऽवक च तां प्रति ॥२७॥
mammmmmmmmmmmmmmmmmmmmmm
ESPSSSSSSESQSS255255ZSE.
Ins||९९॥
For Private and Personal Use Only