________________
Shri Mahavir Jain Aradhana Kendra
पदस्थानक प्रकरणम्
॥ ३० ॥
*********
www.kobatirth.org
व्याख्या -' बाचो ' वचनस्याऽविसंवादः पूर्वोक्तवाधानवभाषणम् एवं क्रियाया व्यापारस्याप्यविसंवादो वचनानुसारेण करणम् | अविसंवादपदं मध्यस्थितं डमरुकमणिन्यायेन पूर्वयोर्द्वयोरग्रेतनयोरपि द्वयोर्योज्यं तेनोपायफलविषये चोपायगोचरः फलगोचरश्वाऽविसंवाद इति तत्र यस्य धर्मादेः पुरुषार्थस्य यत्साधनं दानादि तस्य तत्रैव व्यापारम् उपायविसंवादः । तथा फलं वचन-क्रियादिमाध्यभावरूपं तस्याविसंवादो नान्यथाभावः - फलाविसंवाद :: भावानुसा रेण वर्तन मित्यर्थः । एवमेतद् ऋजुव्यवहरणम्-भकुटिल व्यापारणमपि न केवलं गुणवश्वमित्यपेरर्थः । ' चतुर्विधं चतुप्रकारं, 'हु: ' पादपूरणे, 'समासतः ' संचेपेण 'कीर्तयिष्यामि ' भविष्यामि । इति गाथार्थः ॥ १ ॥
तत्र प्रथमं तावत् सकलजनस्फुटलक्षणत्वाद् वचनाविसंवादो वक्तव्यः । सोऽप्यनेकविधः, ततः प्राधान्याद्धर्मविषयं तावदादौ तमाहवायाअविसंवाओ, धम्मे सुविणिच्छियं असंदिद्धं । सुपरिष्फुड जहगहियं वियागरितस्स नायव्वो ॥
व्याख्या- ' वचनाविसंवादः ' प्रतीतः, ' धर्मे ' सर्वोपदिष्टश्रुतधर्मविषये ज्ञातव्य इति योगः । कथम् १ इत्याह' सुविनिश्चितम् ' अतिशयेन विविधैः प्रकारैर्निर्णीतम्, अत एव 'असंदिग्धं निःसंशयं सुनिश्चितत्वेनैवाऽसंदिग्धत्वे लब्धे तद्ग्रहणं संशयस्य मिथ्यात्वरूपमहानर्थफलत्वख्यापनार्थम् । 'सुपरिस्फुटं ' वर्णतोऽर्थतश्च प्रव्यक्तम् । यथागृstतं ' येन प्रकारेण गुर्वादिमुखादवधारितं जीवादितश्वं यत्तत्तथैवेति गम्यते । ' व्याकुर्वाणस्य ' प्रतिपादयतो ' ज्ञातव्यो ' बोद्धव्यः, अन्यथा तु गुर्वादिवचनेन विसंवादः । इति गाथार्थः ॥ २ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
/*/
1.
चतुर्थं
स्थानस्
॥ ३० ॥