________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
य, कए वि कजे महापयासेण । न दुराराहो तुस्सइ. दुस्सइ किय दूसणविगप्पा ॥ १॥ सो य असंतोसाओ, फरुसं मासेह | करेह य वहाई । एवं धम्मो नस्सइ, कामत्थजसा वि य कमेणं ॥२॥" ततः किम् ? इत्याह-' परिजनो' भृत्यादिः, 'स्वजनः' पितृव्यादिः, ' महाजनो' नगरप्रधानलोकः तेषु, 'अनुकूलो' दक्षिणः तद्वचनाद्यनुवर्तनेन तच्चित्ताहादकः स्यादिति शेषः । श्रावक इति प्रकृतम्, 'त्रिभिरपि करणैः' कार्यसाधकतमैमनोवाकायैः, न वचनमात्रेणैवेति भावः । दुराराधत्वस्य हि दोषशताकुलत्वमाकलय्य तत्प्रतिपन्थिनि सुखाराध्यत्वे सकल पुरुषार्थः साधकतामयति । तदुपायश्च परिजनाद्यानुकून्यमिति शीलधर्मार्थिना तत्राऽप्यवश्यं प्रवर्तितव्यमिति रहस्यमिति गाथार्थः ॥ २४ ॥ दोषाम्भोधरजालवायुपटली सौजन्यवन्यामधु, पैशुन्योद्धतपांसुवारिनिकरः शालीनताश्रीगृहम् । निःशेषामलधर्मकर्मकमलाविर्भावलीलासरः, पुण्यैः कस्यचिदुल्लसत्यलमदः श्रीशीलवत्त्वं हृदि ॥१॥
इति युगप्रवरागमश्रीमज्जिनपतिसूरिशिष्यलेशविरचितायां षटस्थानकवृत्ती
शीलवत्वद्वितीयस्थानकविवरणं समाप्तम् ।।
For Private and Personal Use Only