________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'विज्ञाय' विदित्वा 'स्थिरत्वं ' स्थैर्य 'करोति' विधत्ते तद्भावस्येति प्रक्रमः । संदिग्धप्रश्नादिना ह्यभिनवधर्मादीन में विज्ञाय तत्तत्संशयाद्यपनोद-दक्षसदुपदेशादिना वात्सल्यादिना च धर्मे निश्चलीकरोतीति भावः । इति गाथार्थः ॥ २३ ॥
धर्मप्रयोजनं भावकौशलमभिधाय, अथ तदानुषङ्गिककामप्रयोजनमपि तदाहआयारिंगियकुसलो, कलत्तवेसाण जाणए भावं । रक्खइ सव्वपयत्ता, अप्पाणं कम्मणाईणं ॥२४॥ ___ व्याख्या-'आकारो' मुखरागादिः, ' इङ्गितं ' वदन-भ्रूभङ्गादिः अथवा निरभिप्राया चेष्टा आकारः, साभिप्राया तु इङ्गितम् , तयोः 'कुशलः ' कुशाग्रीयबुद्धितया सूक्ष्मयोरपि परगतयोर्वेत्तृत्वेन निपुणः सन् ‘कलत्रवेश्याना' प्रतीतानां 'जानाति ' अवगच्छति 'भावं ' दुष्टाऽदुष्टत्वादिविशिष्टं परिणामम् । अर्थाद् भाकारेगिताभ्यामेव ज्ञात्वा च 'रक्षति' त्रायते 'आत्मानं ' स्वशरीरं 'सर्वप्रयत्नात् ' समस्तादरेण स्वयं वा मित्रमान्त्रिकादिद्वारेण वेत्यर्थः ॥ 'कार्मणादिभ्यो' वशीकरण-मन्त्र-योग-चूर्णादिभ्यः । अनवगततद्भावो हि कथमात्मानं रक्षेद् ? इति भावकौशलोपयोगः । उपलक्षणं चैतत्, दुष्टभृत्यादेरपि भावं तथैव विज्ञाय विष-शस्त्रादेरात्मानं रक्षति । इति गाथार्थः ॥ २४ ॥ ___ अथाऽर्थप्रयोजनं तदाहजाणइ एस अणत्थं, काहि रिणिओ खरेण रुज्झंतो। अणुवत्तेइ न जुज्झइ, तत्तियमित्तं गयं चेव ॥२५॥ __ व्याख्या-इङ्गितादिभिरेव यदा — जानाति' बुध्यते ' एष ' प्रत्यक्षोपलभ्यो 'अनर्थ ' आत्म-परवधादिना व्यसनं
For Private and Personal Use Only