________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्कर्षवत्पुरुषसिंह विधोगतोऽमी, भस्मग्रहप्रभृतयोऽहितवारणा ही । जैनं मतं भुवि महावनमस्तशइका, भक्तुं कथं सपदि सम्प्रति सम्मवृत्ताः ॥ १६६ ॥ चः पूर्ववत् इति प्रकरणे एषु प्रकृतेषु हुण्डावसर्पियादिषु एवं प्रदर्शितप्रकारेण प्रतिपदं सुविहितलाघवासंयत गौरवापादनलक्षणा दुष्टकार्यदर्शनाद्दुष्टेष्विव दुष्टेषु क्रूरेषु gy कोटिं प्राप्तेषु हुण्डावसर्पिण्यादिषु चतुर्षु अनुकलं प्रतिसमयं अधुना साम्प्रतं दुर्लभो दुरापो जैनमार्गप्रति
निकारिणां हुण्डात्र सप्पिण्यादीनां पुष्टत्वात् तन्महिम्ना च भूयोलोकस्य भवाभिनन्दित्वात् कतिपयसाच्चिकजनोपादेय इति यावत् | जैनमार्गः प्रतिश्रोतोरूपभगवत्पथ एतन्मध्यादेकोऽपि दुष्टपुष्टः स्वकार्यकरणसमर्थः, किं पुनः सम्प्रति सर्वेऽपि मिलिताः । ततो यथा दुष्टेषु चरटादिषु प्रभविष्णुषु पुरादिमार्गो जिगमिषतां दुर्गमो भवति । तथा भगवन्मागौऽप्यधुनैतेषु सत्स्विति, आगमेऽप्युक्तं-- दूसमहुंडावसपिणि भसमग्गहपीडियं इमं तित्थं । तेण कसाया जाया कूरा इह संजयापि ॥ १६७॥ अनुश्रोतोरूपस्तु जैनमार्ग इदानीमपि सुलभः, येषामेव हुण्डावसर्पिण्यादीनां समार्गवृत्तिप्रति प्रातिकूल्यं तेषामेवा सन्मार्गप्रवृत्ति प्रत्यानुकूल्यादिति “इत्थं यद्यपि लिङ्गिभिः प्रकटिता भूपृष्टकृत्स्नावनी, रुयत्र प्रमितावतः श्रुतपथावज्ञानसंज्ञान्वितैः । कल्पेनापि कलावता कलयितुं साकल्यतो दुःशकाः, सम्बोधाय तथापि मूढमनसामेषादिगादर्शिता ॥ १ ॥ इति वृत्तार्थः ] ॥ यथा यथा च दुष्टानां दुर्जनानां धर्मद्वेषिणामित्यर्थो भवति स्यात् इह काले उदय उन्नतिः कालमाहात्म्यादेव । यतः - "धर्मः प्रत्रजितस्तपः कपटितं सत्यं च दूरे गतं, पृथ्वी मन्दफला नृपाश्च कुटिला लौल्यार्थिनो लिङ्गिनः । देशाश्च मलयं गता कर भरैर्लोभ गताः पार्थिवा, साधुः
For Private and Personal Use Only