SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ac www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् इच्छातस्स्वष्टसृष्टिं परममपि परब्रह्मणा भोगमाले साम्यं मायामतस्थः कथमिव घटयेदन्तिमाध्यायसाध्यम् ।। ३५ मानामानप्रभेदप्रभृतिविभजनादादिमे कर्मभागे For Private And Personal Use Only [अ. ४. नाना वा देवतेत्याद्यनुपरिपठनान्मध्यमे देवतांशे । भागेऽस्मिन् भेदधर्मप्रभृतिकथनतस्सौगतादेश्व भङ्गात् मीमांसायां त्रिकाण्ड्यां क्वचिदपि न मृषावादगन्धावकाशः ।। ३६ त्रय्यन्तोदन्वदन्तस्सृतिरियमुदिता देशिकैः कर्णधारैः मुक्त्यर्थज्ञानपारं गमयति विशदं त्वन्यदीक्ष्यं विमुक्तौ । कर्तव्ये कल्पकारैः क्वचिदभिदधिरे कृत्यसन्देहभेदास्तत्त्वेऽप्येवं क्वचित् स्यात् तदपि न वितथः स्वोपयुक्तांशबोधः ।। श्रुत्यन्तैकान्ततर्कक्रमगरिमगतौ तूलवच्छैलवर्गस्तत्सिद्धब्रह्मबोधद्युमणिरुचितमस्स्तोम कल्पोऽन्यजल्पः । मोक्षोपायैकराज्ये तदितरविधयः किङ्करत्वं भजन्ते मुक्तानन्दामृतैको दधिपृषतक णस्पर्धिनोऽन्ये पुमर्थाः || पाराव विविच्य प्रथममवितथै रागमैस्तत्त्ववर्गे संसारे तीव्रभीतिः परसमधिगमे तीव्रनिष्पन्नरागः । कश्चिद्विद्याविशेषं सपरिकरमधिष्ठाय शान्तान्तरायस्संपद्य ब्रह्म भुङ्क्ते निरुपधिकमनावृत्तिरित्थं श्रुतार्थः || सासौ सासूयतत्तत्कुमतिमतसमुन्मूलनी मूलनीतिश्रेणी निश्श्रेणिकल्पा त्रियुगपथरथारोहस्तं सुवीत । सन्तस्सन्तापवर्गप्रशमनपटुना तत्त्वबोधेन सन्तं सन्तोषं ब्रह्मसूत्राधिकरणचरणाध्याय सारावलिर्वः ॥ षट्पञ्चाशच्छतं चेत्यधिकरगणैर्व्यक्तसीमाविभागे काण्डेऽस्मिन्नमदुक्तं कतिचिदनुविदुः क्षेपधन्यैः किमन्यैः । ३८ ३९ ४०
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy