________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--(अथ तृतीयस्याध्यायस्य द्वितीयः पादः॥)
उपोद्धातः॥
ब्रह्मैव खैस्वभावैबहुमुखमवदत् प्राक्तनाध्याययुग्मे तस्येहाकृष्य चिन्ता किमिति पुनरसौ साधनाध्यायमध्ये । मैवं विद्याः प्रभेत्तुं विशदयति परं तद्धि तद्रपभेदासिद्धोपायादिभावं प्रथयति च विभोः प्राप्यतृष्णाप्रथिम्ने ॥ १ नैर्गुण्यं ब्रह्मणश्चेद्वितथ इह गुणैब्रह्मविद्याविभागः सोऽस्त्वेतैः कल्पितैश्वेच्छृतिमतविहति न दृष्टिक्रमोऽपि । निर्दोषत्वं च नित्यं यदि वदास मुधा दोषशान्त्यर्थयात्रः कल्प्यं चेदुष्टता स्यात् प्रकृतिरिति परक्षिप्तये चैष पादः ॥ २ किंचादौ चिन्त्यभावः प्रमितिविषयता स्वप्रमत्वं सुखत्वं विश्वाधिष्ठानता च स्वबहुभवनधीनिर्विशेषे कथं स्यात् । सर्वश्रुत्यर्थहानिः स्ववचनविहतिस्सर्वमानैश्च बाधो मायावयात्यभाजामिति सगुणदशोपास्तिवादश्च दुस्स्थः॥ ३ त्यक्तं दोषैर्गुणाढयं यदि पुनरिह तद्ब्रह्म चिन्त्येत पादे जीवस्वमाद्यवस्थामननमथकथं जाघटीतीति चेन्न । खामार्थस्रष्ट्रभावप्रभृतिबहुविधब्रह्ममाहात्म्यसिद्ध्यै जन्तोरस्य स्वमुक्तावतिपरवशताज्ञप्तये चैतदत्र ॥ पादस्यास्याद्यमधु कतिचिदधिजगुः पूर्वपादस्य शेष पश्चादर्धन्तु साक्षादनुघटितमुपास्त्यर्थतत्तद्गुणोक्तेः । एतन्नातीव हृद्यं शबलितकथने चातुरीवैपरीत्याब्रह्मोक्तो जीवदोषग्रह इह तु मुखं तत्पतिद्वन्द्वसिद्धेः॥ ५
For Private And Personal Use Only