________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा-१
मन्याधिष्ठिताधिकरणम् .
( अयानिष्टादिकार्यधिकरणम् ॥ ३ ॥)--. सर्वेषान्देहपाते सति नियमवती चन्द्रमा प्राप्तिरुक्ता तस्मात् पापोत्तराणां निरयगतिपुरस्कारिणी सेति चेन्न । लोकस्संपूर्यते तैर्न पर इति गिरा संकुचेत् सर्वशब्दस्ते तत्तयातनान्ते तत इह सहसा कुत्सितां यान्ति योनिम् ॥११ जन्ममाप्तिर्जरायुप्रभृतिषु भविनां कर्मपाकैर्विचित्रा भूयिष्ठैः पुण्यपापैस्त्वपवदनवती पञ्चमाहुत्यपेक्षा । तबद्धमादिमागाः कति कति च शुभैरुत्कटैर्देहपाते दिव्यं रूपं विमानादिकमपि सपदि प्राप्य याताः प्रसिद्धाः॥१२
-- (अथ तत्स्वाभाव्यापत्त्यधिकरणम् ॥ ४ ॥)---- आहुत्योहवत्त्वं प्रथमचरमयोनिर्विवादं तथा स्याजन्मवाकाशवायुप्रभृतिषु भवतेरन्वयादित्यसारम् । रेतस्सिग्भावनीत्या पृथगभिलपनानहतामात्रमत्र शुभ्वोः पुण्यप्रसाद्धयं फलमिह पठितं नास्ति भोगश्च मध्ये ॥१३ ___ -- (अथ नातिचिराधिकरणम् ॥ ५ ॥).-..व्योमादिस्थित्यवस्था चिरमचिरमिति व्यक्तनिर्देशहानेश्शुक्लावस्थानयात्स्यादनियतिरिति न स्वारसिक्याः प्रवृत्तेः। ब्रीह्यादिभ्यो हि दुनिष्पपतरमिति तु श्रूयते तेन पूर्व शीघ्र तत्तद्दशायास्त्यजनमिति परिज्ञायते वाक्यशक्त्या ॥ १४
( अथान्याधिष्ठिताधिकरणम् )---- जन्म ब्रीह्यादिनाना श्रुतमिह तदिदं देवमय॑त्ववत्स्याभैरात्म्यं स्थावराणान्नच निगमविदस्स्थापयन्तीति चेन्न । पुण्यस्यैव प्रवृत्ते फलपरिगणने स्थावरत्वोत्ययोगा देतस्सिग्वह्मणीव खुपचरति जनि स्थावरेऽप्यन्यदेहे ॥ १५
*66
For Private And Personal Use Only