SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीमते रामानुजायनमः • अधिकरणसारावली. Acharya Shri Kailassagarsuri Gyanmandir • अथ तृतीयास्याध्यायस्य प्रथमः पादः ) उपोद्घातः ॥ साद्ध्या मुक्तिर्नचेत्स्यात्प्रसजति विफला साधनाद्ध्यायकुप्तिस्साद्धया चेन्नश्वरी स्यात् कथमिह पुनरावृत्तिशून्योऽपवर्गः । मैवं ब्रह्मानुभूतिः परभजनवता प्रागसिद्धैव साद्ध्या धीसंकोचप्रणाशस्त्वियमिति च भवत्युत्तरावध्यतीता ॥ पादाभ्यामत्र पूर्व जनयति भविनां ब्रह्मविद्याधिकारं पश्चात्तेषामुभाभ्यां वदति बहुविधान्तामशेषैस्सहायैः । ऐश्वर्यादौ विरक्ति निरवधिविभवे पूरुषेचाभिलाषं विद्याभेदावलम्बन्तदुपकरणमप्याह पादैः क्रमेण || संसारोद्विग्नचेतास्तनुभृदधिकरोत्यत्र शारीरकांशे वैराग्यार्थस्तु पादः किमिति पुनरसौ सूत्रकारैर्निबद्धः । सत्यं प्राप्यान्तराणां निरयगणतुलारोपणम्मुक्त्युपायप्रारम्भेऽभ्यर्हितं स्यात्त्वरत इह खलु स्पष्टदृष्टस्वबोधः ॥ ३ तदन्तरप्रतिपत्त्यधिकरणम् ॥ १ ॥ देहाद्यं भोग्नीत्या दिवि भुवि च गतौ तत्रतत्रैव लभ्यं प्राणाद्यैर्भूतसूक्ष्मैरपि किमिह सुधा पूर्वदेहाद्गुहीतैः । जीवस्याणोर्गतिं च स्वयमुपजनयेदीश्वरः प्राणनीत्या मैवं स्वच्छन्दकृत्ये श्रुतिमितनियतौ गौरवोक्तेरयुक्तेः ॥ नानाजातीयराशि व्यपदिशति जनो भूयसोंशस्य नाम्ना प्राचुर्यादेवमापः पुरुषवचस इत्युच्यते भूतवर्ग: । For Private And Personal Use Only १
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy