________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९२ वेदान्तदीपे
[अ. ४. दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ उक्तमर्थ श्रुतिस्मृती च दर्शयतः १"तस्माद्वा एतस्मादात्मन आकाशस्संभूतः" २"एतस्य वा अक्षरस्य प्रशासने" इत्यादिका श्रुतिः; स्मृतिरपि ३"अहं सर्वस्य प्रभवः मत्तस्सर्व प्रवर्तते" इति।
भोगमात्रसाम्यलिङ्गाच्च ।। १"सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता" इति ब्रह्मानुभवरूपभोगमात्रसाम्यलिङ्गाश्च ॥ २१ ॥
अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॥४“स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते" इतिशब्दात् निवृत्तसमस्ततिरोधानः आविर्भूतापहतपाप्मत्वादिगुणगणः अनवधिकातिशयानन्दं परं ब्रह्मानुभवति, न च पुनरावर्तते इति निश्चीयते इति । सर्व समञ्जसम् ॥२२ ॥
इति वेदान्तसारे जगद्व्यापारवर्जाधिकरणम् ॥ ९॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे चतुर्थस्याध्यायस्य
चतुर्थः पादः॥४॥ समाप्तश्चाध्यायः॥४॥
श्रीमते रामानुजाय नमः
वेदान्तदीपे-जगद्व्यापारवर्ज प्रकरणादसनिहितत्वाच ॥ किं मुक्तस्य भोगः निखिलहेयप्रत्यनीककल्याणकतानसकलेतरविलक्षणानवधिकातिशयानन्दमहाविभूतिरूपपरब्रह्मानुभव एव ? उत जगत्सृष्ट्यादिजगनियमनरूपलीलाऽपीति संशयः। ५"निरञ्जनः परमं साम्यमुपैति" इत्यादिश्रुतेर्जगनियमनरूपलीलापीति पूर्वः पक्षः । राद्धान्तस्तु-६"यतो वा इमानि भूतानि जायन्ते" ७"सदेव सोम्येदमग्र आसीत्''८"ब्रह्म वा इदमेक एवाग्र आसीत्" ९"आत्मा वा इदमेक एवाग्र आसीत्" १०"एको ह वै नारायण आसीत्"इत्यादिषु परं ब्रह्म प्रकृत्यैव जगद्वयापारश्श्रूयते । तत्रतत्र प्रकरणे न मुक्तस्य
१ ते. आन. १-२ ॥-२. वृ. ५-८ ९।।-३. गी. १०-८||---४, छा. ८-१५. १॥-५. मु. ३-१-३ ॥-६. ते. भृगु. १ ॥-७. छा. ६-२-१ ॥–८. व. ३. ४-१०॥-९. ऐन. १-१॥-१०. महो, १-९ ॥
For Private And Personal Use Only