SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.४.] अभावाधिकरणम्. ४८५ कमात्मनस्सृष्टा तैर्मनुष्यधर्मलीलारसं भुते तथा मुक्तश्च सत्यसङ्कल्पत्वात् परमपुरुषलीलान्तर्गतस्वपितृलोकादिकं स्वयमेव सृष्ट्वा तैर्लीलारसमनुभवति ॥ । नन्वात्माऽणुपरिमाण इत्युक्तम् ; कथमनेकशरीरेवेकस्याणोरात्माभिमानसम्भव इत्यत्राह प्रदीपवदावेशस्तथाहि दर्शयति । यथा प्रदीपस्यैकस्यैकदेशवर्तिनस्खया प्रभयाऽनेकदेशप्रवेशः ; तद्वदात्मनोऽप्येकदेशस्थस्य स्वप्रभारूपेण ज्ञानेन सर्वदेहेषु यथासङ्कल्पमात्माभिमानानुगुणा व्याप्तिस्सम्भवति; यथैकस्मिन्देहेहदयादिदेशे वर्तमानस्याणोरपि सर्वस्मिन्देहे अहम्' इत्यभिमानानुगुणव्याप्तिस्वप्रभारूपचैतन्येन, तद्वत् । तथा दर्शयति हि श्रुतिः१ "वालाग्रशतभागस्य शतधा कल्पितम्य च। भागो जीवस्स विशेयस्स चानन्त्याय कल्पते" इति।प्रत्यगात्मनोऽणुत्वमेव स्वरूपमिति सूत्रकारमतम्, २ "नाणुरतच्छ्रतेरितिचेन्नेतराधिकारात्" इति परस्यैव महत्त्ववचनात् ॥ १५ ॥ ननु परं ब्रह्म प्राप्तस्यान्तरबाह्यज्ञानलोपं दर्शयति श्रुतिः३"प्राझेनाऽत्मना सम्परिष्वक्तो न बाह्य किञ्चन वेद नान्तरम्" इति; तत्कथं मुक्तस्य ज्ञानानन्स्यमुच्यत इत्यत्राह स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ नेदं मक्तविषयम: सुषुप्तिमरणयोरन्यतरापेक्षम् । आविष्कृतं हि श्रुत्या सुषुप्तिमरणयोनिस्सम्बोधत्वम् , मोक्षदशायां सर्वशत्वं च । सुषुप्तौ तावत् ४"ना ह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति" इति । विनाशम्-अदर्शनमित्यर्थः । मरणे च ५"एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवान विनश्यति" इति । विनश्यति न पश्यतीत्यर्थः । मोक्षे तु ६"स वा एष दिव्येन चक्षुषा मनसैतान्कामान्पश्यत्रमते य एते ब्रह्मलोके” इति; ७"सर्व ह पश्यः पश्यति सर्वमाप्नोति सर्वशः" इति च ॥ १६ ॥ इति वेदान्तदीपे अभावाधिकरणम् ॥ ५ ॥ १. श्वे. ५-अ, ९॥-२. शारी. २-३-२२ ॥---- ३. बृ. ६-३-२१ ॥-४. छा. ८.११.२॥-५. बृ. ४-४-१२ ॥-६. छा. ८-१२.५ ॥-७. छा. ७-२६-२॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy