________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ४.]
ब्राह्माधिकरणम्.
४७७
"
वेदान्तदीपे - ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ किं जीवस्य स्वाभाविकं रूपमपहतपाप्मत्वादिगुणकम् उत चैतन्यमात्रम्, उतोभयमिति संशयः । अपहृतपाप्मत्वादिगुष्णकमिति प्रथमः पक्षः, १ "य आत्माऽपहतपामा" इति प्रतिपादनात् । चैतन्यमात्रमिति द्वितीयः पक्षः, २" एवं वा अरे ऽमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव" ३" विज्ञानघन एव" इत्यवधारणात् । राद्धान्तस्तु – ज्ञानस्वरूपस्यैवापहतपाप्मत्वादिगुणकत्वप्रतिपादनादविरोधाश्च्चोभयं स्वरूपम् । नच "विज्ञानघन एव" इत्यवधारणं गुणान्तरासहम्, यथा सैन्धवघनस्य "रसघन एव'' इत्यवधारणेऽपि रसाश्रयद्रव्यं रूपस्पर्शादिगुणान्तरं च सहते; "रसघन एव" इत्यवधारणं तु रसवद्द्रव्यान्तरस्वभावव्यावृत्तिपरम द्रव्यान्तराणां हि स्वैकदेशे ४ रसवत्त्वम्, सैन्धवघनस्य तु ५ सर्वत्र; एवमत्रापि जडवस्तुव्यावृत्तस्वस्वभावस्य सगुणस्याऽत्मनः स्वप्रकाशतावधारणं "विज्ञानघन एव" इति क्रियते ॥
सूत्रार्थस्तु - ब्राह्मण - अपहतपाप्मत्वादिना स्वरूपाविर्भावः । अपहतपाप्मत्वादयो दहरवाक्ये ब्रह्मगुणाश्श्रुताः । उपन्यासादिभ्यः तेषां ब्रह्मगुणानां प्रत्यगात्मन्यपि १"य आत्माऽपहतपाप्मा" इत्यादिनोपन्यासात् | आदिशब्दात् ६" जक्षत्क्रीडन्रममाणः" इत्यादिभ्योऽपि सत्यसङ्कल्पत्वादयोऽवगम्यन्त इति जैमिनिराचार्यो मन्यते ॥ ५ ॥
चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः || चैतन्यमात्रेण स्वरू पाविर्भावः, ३“विज्ञानघन एव" इति तदात्मकत्वावधारणादित्यौडुलोमिराचार्यो मन्यते ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः । एवं - विज्ञानस्वरूपस्यैव, स्वप्रकाश स्वरूप स्यैव पूर्वेषाम् - अपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तानामपि १" य आत्माऽपहतपाप्मा" इत्युपन्यासात्सद्भावावगमादुभयोस्स्वरूपयोरविरोधं भगवान्बादरायणो मन्यते । उभयश्रुत्यवगतस्येतरेतरविरोधाभावान्नान्यतरबाधे प्रमाणमस्तीत्यभिप्रायः ॥ ७ ॥
इति वेदान्तदीपे ब्राह्माधिकरणम् ॥ ३ ॥
. छा. ८-७-१ ॥ - २. बृ. ६-५-१३ ॥ - ३. बृ. ४-४-१२ ॥ - ४. भिन्नरसवत्त्वम् . पा ।। - ५. सर्वत्रैकरसवत्त्वम् पा । – ६. छा. ८-१२-३ ॥
For Private And Personal Use Only