________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अ.४.
४१६
श्रीशारीरकमीमांसाभाष्ये श्य १“सर्वे पाप्मानोऽतो निवर्तन्ते" इति, २"तत्सुकृतदुष्कृते धूनुते" इतिच । मुमुक्षोरनिष्टफलत्वात्सुकृतस्यापि पाप्मशब्देन व्यपदेशः। मुकतस्यापि शास्त्रीयत्वात्तत्फलस्य केषांचिदिष्टत्वदर्शनाच विद्याया अविरोधशङ्कां निवर्तयितुमतिदेशः। ननु विदुषोऽपि सेतिकर्तव्यताकोपासननि:त्तये दृष्टयन्नादिफलानीष्टान्येवः कथं तेषां विरोधाद्विनाश उच्यते तत्राह -पाते तु-इति । शरीरपाते तु तेषां विनाशः; शरीरपातावं तु विद्यानुगुणदृष्टफलानि सुकृतानि नश्यन्तीत्यर्थः ॥ १४ ॥
__ इति श्रीशारीरकमीमांसाभाष्ये इतराधिकरणम् ॥ ८॥
वेदान्तसारे-इतरस्याप्येवमसंश्लेषः पाते तु ॥ विदुषः पुण्यस्यापि मोक्षविरोधित्वेनानिष्टफलत्वसाम्यादेबमश्लेषविनाशौ । वृष्ट्यनायुरारोग्यादिविद्यानुगुणफलस्य कर्मणः शरीरपातादूर्ध्वमफलत्वम् ॥१४॥
इति वेदान्तसारे इतराधिकरणम् ॥ ८ ॥
वेदान्तदीपे-इतरस्याप्येवमसंश्लेषः पाते तु ॥ किमसंश्लेषविनाशौ पुण्यकर्मणोऽपि समानौ? उत नेति संशयः । पुण्यकर्मफलस्य सुखरूपत्वेन विदुषोऽनिष्टत्वाभावान समानाविति पूर्वः पक्षः। राद्धान्तस्तु-मुमुक्षोर्मोक्षविरोधित्वेनानिष्टत्वसाम्यावश्लेषविनाशौ समानावेव । सूत्रार्थस्तु-इतरस्य पुण्यस्याप्यनिष्टफलत्वसाम्यादेवम् अश्लेषविनाशौ ; विद्यानुगुणस्य तु वृष्ट्यभारोग्यादिफलस्य शरीरपातादूर्ध्वमनिष्टत्वादश्लेषः ॥ १४ ॥
___ इति वेदान्तदीपे इतराधिकरणम् ॥ ८॥ -..(श्रीशारीरकमीमांसाभाष्ये अनारब्धकार्याधिकरणम्॥३॥)..
अनारब्धकार्ये एव तु पूर्वे तदवधेः।४।१।१५॥ ___ ब्रह्मविद्योत्पत्तेः पूर्वोत्तरभाविनोस्सुकृतदुष्कृतयोरश्लेषविनाशावु
१. छा. ८-४-१॥-२. कोषी. १.४ ॥
For Private And Personal Use Only