SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१० श्रीशारीरकमीमांसाभाष्ये [अ. ४. --(सिद्धान्तः.)...इति प्राप्त उच्यते-आसीनः-इति। आसीन उपासनमनुतिष्ठेत् । कुतः सम्भवात्-आसीनस्यैव ह्येकाग्रचित्ततासम्भवः, स्थितिगत्योः प्रयत्नसापेक्षत्वात् , शयने च निद्रासम्भवात् । पश्चार्धधारणप्रयत्ननिवृत्तये सापाश्रये आसीनः कुर्यात् ॥ ७ ॥ ध्यानाच्च ।४।१।८॥ १"निदिध्यासितव्यः" इति ध्यानरूपत्वादुपासनस्य, एकाग्रचित्तताऽवश्यंभाविनी। ध्यानं हि विजातीयप्रत्ययान्तराव्यवहितमेकचिन्तनमित्युक्तम् ॥ ८॥ __ अचलत्वं चापेक्ष्य ।४।१।९॥ ___निश्चलत्वं चापेक्ष्य पृथिव्यन्तरिक्षादिषु ध्यानवाचोयुक्ति:श्यते ३"ध्यायतीव पृथिवी, ध्यायतीवान्तरिक्ष, ध्यायतीव द्यौः, ध्यायन्तीवापो, ध्यायन्तीव पर्वताः" इति । अतः पृथिवीपर्वतादिवदेकाग्रचित्ततया निश्चलत्वमुपासकस्यासीनस्यैव सम्भवेत् ॥ ९॥ स्मरन्ति च ।४।१।१०॥ स्मरन्ति चासीनस्यैव ध्यानं ४"शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् । तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः। उपविश्याऽसने युञ्जयाद्योगमात्मविशुद्धये" इति ॥ १० ॥ यत्रैकाग्रता तत्राविशेषात् ।४।१।११॥ एकाग्रतातिरिक्तदेशकालविशेषाश्रवणादेकाग्रतानुकूलो यो देशः १. बृ. ६-५-६ ॥-२. निश्चलत्वं मपेक्ष्य. पा ॥–३. . ७-६-१॥-४. गी. ६.११-१२ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy