________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
विलक्षणत्वाधिकरणम्. घटमकुटादिष्विव वस्त्वन्तरव्यावृत्तिहेतुभूतासाधारणाकारानुत्तिर्माक्षिकमोमयक्रिमिश्चिकादिषु दृश्यते ॥ ६॥
असदितिचेन्न प्रतिषेधमात्रत्वात् । २॥ १॥७॥ ___ यदि कार्यभूताजगतः कारणभूतं ब्रह्म विलक्षणम् , तर्हि कार्यकारणयोर्द्रव्यान्तरत्वेन कारणे परस्मिन्ब्रह्मणि कार्य जगन्न विद्यत इत्यसत एव जगत उत्पत्तिः प्रसज्यत इति चेत् नैतदेवम्, कार्यकारणयोस्सालक्षण्यनियमप्रतिषेधमात्रमेव हि पूर्वसूत्रेऽभिप्रेतम् ; न तु कारणाकार्यस्य द्रव्यान्तरत्वम् ; कारणभूतं ब्रह्मैव खस्माद्विलक्षणजगदाकारेण परिणमत इत्येतत्तु न परित्यक्तम् ; क्रिमिमाक्षिकयोरपि हि सति च वैलक्षण्ये कुण्डलहिरण्ययोरिव द्रव्यैक्यमस्त्येव ॥ ७॥ ____ अत्र चोदयति
अपीतौ तद्वत्प्रसादसमञ्जसम् । २॥ १॥ ८॥ ___अपीतावित्यपीतिपूर्वकसृष्टयादेः प्रदर्शनार्थम् , १“सदेव सोम्येदमग्र आसीत् " २“आत्मा वा इदमेक एवाग्र आसीत्" इत्यादिष्वप्ययावस्थोपदेशपूर्वकत्वदर्शनात्सृष्टयादेः । यदि कार्यकारणयोर्द्रव्यैक्यमभ्युपेतम् , तदा कार्यस्य जगतो ब्रह्मण्यप्ययसृष्टयादिषु सत्सु ब्रह्मण एव तत्तदवस्थान्वय इति कार्यगतास्सर्व एवापुरुषार्था ब्रह्मणि प्रस. ज्येरन् , सुवर्ण इव कुण्डलगता विशेषाः । ततश्च वेदान्तवाक्यं सर्वमसमञ्जसं स्यात्, ३“यस्सर्वज्ञस्सर्ववित्" ४"अपहतपाप्मा विजरो विमृत्युः" ५" न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते" १. छा. ६.२-१ ॥
४. छा. ८-१.५ ॥ २. ऐतरेय. १-१-१॥
५. श्वे. ६-८ ॥ ३. मु. १-१-९॥
For Private And Personal Use Only