________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये
[म. २. (सिद्धान्तः)---- एवं प्राप्तेऽभिधीयते
__अस्ति तु ।२।३।२॥
अस्तित्वाकाशस्योत्पत्तिः अतीन्द्रियार्थविषया हि श्रुतिः प्रमाणान्तराप्रतीतामपि वियदुत्पत्तिं प्रतिपादयितुं समर्थैव । न च श्रुतिप्रतिपनेऽर्थे तद्विरोधिनिरवयवत्वादिहेतुकमनुत्पत्त्यनुमानमुदेतुमलम् आत्मनोऽनुत्पत्तिर्न निरवयवत्वप्रयुक्तेति वक्ष्यते ॥२॥
पुनश्चोदयतिगौण्यसम्भवाच्छब्दाच्च । २।३।३॥
१" तस्माद्वा एतस्मादात्मन आकाशः संभूतः” इत्यादिवियदुत्प. त्तिश्रुतिगैणीति कल्पयितुं युक्तम् , २" तत्तेजोऽसृजत" इति सिमक्षोः ब्रह्मणः प्रथमं तेज उत्पद्यत इति सेजउत्पत्तिप्राथम्येन वियदुत्पत्तिपतिपादनासंभवात् , ३" वायुश्चान्तरिक्षं चैतदमृतम्" इति वियतोऽमृतत्वशन्दाच ॥३॥
कथमेकस्य संभूतशब्दस्य आकाशापेक्षया गौणत्वम् , अग्न्यायपेक्षया मुख्यत्वमिति चेत्-तत्राह
स्याच्चैकस्य ब्रह्मशब्दवत् । २।३।४॥
एकस्यैव १"तस्माद्वा एतस्मादात्मन आकाशस्संभूतः"इत्याकाशे मुख्यत्वासंभवात् गौणतया प्रयुक्तस्य सम्भूतशब्दस्य "वायोरमिः" इत्यादिष्वनुषक्तस्य मुख्यत्वं स्यादेवः ब्रह्मशब्दवत्-यथा ब्रह्मशब्दः, ४"तमादेतद्ब्रह्म नाम रूपमन्नं च जायते" इत्यत्र प्रधाने गौणतया प्रयुक्तस्त
१. ते. मान. १-अनु॥-२, छा. ६-२-३॥-३. उ. ४-३-३०-४.मु.१-१-९॥
For Private And Personal Use Only