SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ៖ शारीरकमीमांसाभाष्ये [अ. १. दौ सर्पादिविज्ञानं सत्यमेव भयादिहेतुः । सत्यैवादष्टेपि स्वात्मनि सर्पसन्निधानादष्टबुद्धिः, सत्यैव शङ्काविषबुद्धिर्मरणहेतुभूता । वस्तुभूत एव जलादौ मुखादिप्रतिभासो वस्तुभूतमुखगत विशेषनिश्चयहेतुः । एषां संवेदनानामुत्पत्तिमत्त्वादर्थक्रियाकारित्वाच्च सत्यत्वमवसीयते । हस्त्यादीनाम् अभावेऽपि कथं तद्धद्धयस्सत्या भवन्तीति चेतुः नैतत्, बुद्धीनां सालम्बनत्वमात्रनियमात् ॥ अर्थस्य प्रतिभासमानत्वमेव ह्यालम्बनत्वेऽपेक्षितम् प्रतिभासमानता चास्त्येव दोषवशात् । स तु बाधितोऽसत्य इत्यवसीयते । अबाधिता हि बुद्धिस्सत्यैवेत्युक्तम् ॥ Acharya Shri Kailassagarsuri Gyanmandir रेखया वर्णप्रतिपत्तावपि नासत्यात्सत्यबुद्धिः, रेखायास्सत्यत्वात् । ननु -- वर्णात्मना प्रतिपन्ना रेखा वर्णबुद्धिहेतुः । वर्णात्मता त्वसत्या | नैवम्, वर्णात्मताया असत्याया उपायत्वायोगात् । असतो निरुपाख्यस्य ह्युपायत्वं न दृष्टमनुपपन्नंच अथ तस्यां वर्णबुद्धेरुपायत्वम्; एवं तर्ह्यसत्यात्सत्यबुद्धिर्न स्याद्वद्धेस्सत्यत्वादेव | उपायोपेययोरेकत्वप्रसङ्गश्व, उभयोवर्णबुद्धित्वाविशेषात् । रेखाया अविद्यमानवर्णात्मनोपायत्वे चैकस्यामेव रेखायामविद्यमानसर्व वर्णात्मकत्वस्य सुलभत्वादेकरेखा दर्शनात्सर्ववर्णप्रतिपत्तिस्स्यात् । अथ पिण्डविशेषे देवदत्तादिशब्दसंकेतवच्चक्षुर्ग्राह्यरेखाविशेषे श्रोत्रग्राह्यवर्णविशेषसंकेतवशाद्रेखाविशेषो वर्णविशेषबुद्धिहेतुरिति । हन्त तर्हि सत्यादेव सत्यप्रतिपत्तिः, रेखायास्संकेतस्य च सत्यत्वात्, रेखागवयादपि सत्यगवयबुद्धिस्सादृश्यनिबन्धना, सादृश्यं च सत्यमेव ॥ न चैकरूपस्य शब्दस्य नादविशेषेणार्थभेदबुद्धिहेतुत्वेऽप्यसत्यात्सत्यप्रतिपत्तिः, नानानादाभिव्यक्तस्यैकस्यैव शब्दस्य तत्तन्नादाभिव्यजयस्वरूपेणार्थविशेषैस्सह संबन्धग्रहणवसादर्थभेदबुद्ध्युत्पत्तिहेतुत्वात् । १. अभावे कथं. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy