SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ३. ] प्रमिताधिकरणम्. कामाधारश्च योऽसौ समगणि दहराकाशवाचाऽत्र नित्यस्तस्यैव ह्येष आत्मेत्यनुवदनमतस्तद्गुणाश्चिन्त्यकामाः ॥ सर्वेशाधारतोक्त्या भवतु च हृदयव्योम तद्वाज्यधीतं छान्दोग्यस्थो निषादस्थपतिनयपदं ब्रह्मलोकादिशब्दः । आपस्तम्बश्च वैभाजनपुर मवदद्ब्रह्म सर्वात्मभूतं पुस्तस्य प्राणिनस्स्युस्तदपि तदपि हि स्यात् पुरं सर्ववासात् || जीवस्तर्ह्येष आत्मा गुणगणघटनात्तत्परामर्शदृष्टेरल्पत्वाशुक्तितश्चेत्यसदनुपधिकात्सत्यसङ्कल्पतादेः । विश्वकाधारतादेरपि स खलु परो दहतौपाधिकी स्यात् प्राजापत्यात्तु वाक्यात्परसमदशया तद्गुणोक्तिर्विमुक्ते ॥ aaratasyaर्गप्रद इति गदितुं सम्प्रसादोक्तिरत्र प्राजापत्ये तु वाक्ये परपरिपठनं प्राप्यनिष्कर्षणार्थम् । आकाङ्क्षाद्यैस्तदेवं परतदितरयोरन्विते वाक्ययुग्मे युक्तन्नान्योन्यबाधप्रभृतिकमिह तत्सामरस्यं हि सौत्रम् ॥ इति दहराधिकरणम् ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ प्रमिताधिकरणम् ॥ ६ ॥ प्राणेशोऽङ्गुष्ठमात्रः कचिदनुकथितस्सञ्चरन् कर्मभिः स्वैरन्यत्राङ्गुष्ठमात्रं पुरुषमपि यमो निश्चकर्षेति दृष्टम् । तस्मादेतत्प्रमाणप्रमितमुपनिषज्जीवमाहेत्ययुक्तं वाक्यस्थेशानतादेर्नरहृदयपरिच्छित्तितस्तद्धि मानम् || नह्यङ्गुष्ठप्रमाणं हृदयमखिलजन्त्वाश्रयन्तत् परस्मिन्व्याप्ते तन्मानतोक्तिः कचिदिति मनुजाधिक्रियोक्तिप्रसङ्गे । For Private And Personal Use Only २३ १४ १६ १७ १८
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy