SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् ----( अथान्तराधिकरणम् ॥ १४ ॥)....... यद्वत्तादेर्य एषोऽक्षिणि पुरुष इति श्रूयमाणोऽस्तु जीवो यद्वाऽक्ष्णोर्देवताऽर्कः प्रतिकृतिरथवा तत्र दृश्येति चेन्न । एतद्ब्रह्मैतदेवामृतमभयमिदं के खमित्यावधीतेस्संयद्वामत्वमुख्यैस्स्थितिनियतिबलादर्चिरायुक्तितश्च ॥ १० स्वातन्त्र्योत्तंसितासु श्रुतिषु न फलदस्यैव वेद्यत्ववादः कल्याणालोकनादेरिव विधिवलतो वेदनस्यार्थवत्त्वात् । तस्मादक्ष्यन्तरस्थः प्रतिकृतिपुरुषो युज्यते पूर्वपक्षे सेयं पूर्वापरास्वप्यधिकृतिषु यथासम्भवं नीतिरूया ॥ ११ पूर्वन्यायेऽग्निविद्या पुरत उपनता मध्यतस्त्वत्र तस्मातद्वन्न ब्रह्मविद्यानुगतिरिति भवेदक्षिविद्या ततोऽन्या । मैवं विच्छित्तिरङ्गैन हि भवति मिता चाङ्गताऽनेकधाऽस्याः प्रोक्तं च ब्रह्मविद्यानुगुणमिह फलं प्राक्तु न ब्रह्मदृष्टिः॥ १२ इत्यन्तराधिकरणम् ॥ १४ ॥ ----(अथान्तर्याम्यधिकरणम् ॥ १५॥)... अन्तर्यामी स जीवो बहुविधकरणायत्तधीवृत्त्यनुक्तेर्नान्यो द्रष्टेति चोक्तेरिति यदि न नियन्त्रन्तरस्य व्युदासात् । द्रष्टत्वाद्यं च तत्तद्विषयघटितधीरूपमीशे हि मुख्यं तद्धर्माः काण्वमाद्ध्यन्दिनपठितिगतास्तस्य चात्मा शरीरम् ॥ १३ स्थानैक्यादत्र शाखाद्वयपरिपठितावात्मविज्ञानशब्दावेकार्थावित्यकम्प्यन्तदपि कथयतो बुद्धिमेवेत्यपार्थः । लोकाम्नायप्रसिद्ध्योरनुगमत इमौ चेतने ह्येकतानौ बाधः केनापि नास्मिन्भवति च सत इत्यादिभिस्सामरस्यम् ॥ इत्यन्तर्याम्यधिकरणम् ।। १५ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy