SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्माद्यधिकरणम् . आवापोद्वापभेदात् प्रतिपदनियता शक्तिरप्यत्र सिद्ध्येत् भूयोदृष्टयादिसाहाय्यकमिह वचसः कार्यपक्षाविशिष्टम् ॥ ३२ कार्ये व्युत्पत्तिराद्या भवतु तदपि किं शक्तितात्पर्यसिद्धेः प्राग्व्युत्पत्तिः क्रियायां नृवचसि निगमे त्वन्यथेत्यभ्युपैषि । स्थाप्याऽतोऽनन्यथासिघ्यनुगमनियतैस्सत्प्रयोगैर्हि शक्तिः कोऽसौ पाश्चालइत्याधुचितविरतिकं सिद्धमात्रेऽपि वाक्यम्॥३३ दुःखासंभिन्नदेशप्रभृतिफलतया चोदनाखेव सिद्धं श्रीतत्वादार्थवादिक्यपि भवति फलं रात्रिसत्रे प्रतिष्ठा । अङ्गीकुमो निषेधानुगुणमिति तथाऽनर्थकृत्त्वं निषेद्ध्ये विद्ध्यर्थैरप्यतस्स्यादवितथविषया ब्रह्मधारर्थवादैः॥ इति जिज्ञासाधिकरणम् ॥१॥ 3 . मा५. ...( अथ जन्माद्यधिकरणम् )-..जन्मायैश्चेद्विशेष्यं भवति बहुलताथोपलक्ष्यं ब्रवीषि ज्ञाताज्ञातादिदौःस्थ्यं व्यतिषजति न चालक्षिते स्यात्परीक्षा। उदिष्टब्रह्मचिन्ता तत इह कथमित्यत्र हेतुत्वलक्ष्यः पुंसूक्तादिप्रसिद्धो गुणनिधिरघजिब्रह्मशब्दार्थ उक्तः॥ ३५ नाना चेल्लक्षणानि स्वरसभिदुरता ब्रह्मणि स्याद्विशेष्ये खण्डो मुण्डश्च गौरित्यभिलपनसमा धर्मिशब्दकताऽत्र । तेष्वेकं चेद्यथाऽन्यत्समुदितमफलं स्याद्यवच्छेद्यहानेः खण्डत्वादिक्रमाचेत्यसदविहतितः खण्डतादेर्विशेषात् ॥ ३६ तत्तत्स्वप्रत्यनीकव्युदसननियतं भेदकं नान्यबाधि व्याघातः कालभेदान्न भवति जननस्थापनध्वंसनानाम् । For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy