________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४६
शारीरकमीमांसाभाष्ये
[अ. १.
यते । निवृत्तिस्तु साध्याऽपि प्रध्वंसाभावरूपा न विनश्यति। १" ब्रह्म वेद ब्रह्मैव भवति " २" तमेव विदित्वाऽतिमृत्युमेति" इत्यादिवचनं मोक्षस्य वेदनानन्तरभावितां प्रतिपादयन्नियोगव्यवधानं प्रतिरुणद्धि । नच विदिक्रिया कर्मत्वेन वा ध्यानक्रियाकर्मत्वेन वा कार्यानुप्रवेशः, ४उभयविधकर्मत्वप्रतिषेधात् । " अन्यदेव तद्विदितादथो ६अविदितादपि " ७""येनेदं सर्व विजानाति तत्केन विजानीयात् " इति । "तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते " इति च ॥
५
Acharya Shri Kailassagarsuri Gyanmandir
न
चैतावता शास्त्रस्य निर्विषयत्वम्, अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य । न हीदन्तया ब्रह्म विषयकरोति शास्त्रम् ; अपि तु अविषयं प्रत्यगात्मस्वरूपं प्रतिपादयदविद्याकल्पितज्ञानज्ञातृज्ञेय 'विभागं निवर्तयति । तथा च शास्त्रं - ९" न दृष्टेर्द्रष्टारं पश्येः" इत्येवमादि । नच ज्ञानादेव बन्धनिवृत्तिरिति श्रवणादिविध्यानर्थक्यम्, स्वभावप्रवृत्तकलेतरविकल्पविमुखीकरणद्वारेण वाक्यार्थावगतिहेतुत्वात्तेषाम् । न च ज्ञानमात्रात् बन्धनिवृत्तिर्न दृष्टेति वाच्यम्, बन्धस्य मिथ्यारूपत्वेन ज्ञानोत्तरकालं स्थित्यनुपपत्तेः । अत एव न शरीरपातादूर्ध्वमेव बन्धनिवृत्तिरिति वक्तुं युक्तम् । नहि मिथ्यारूपसर्पभयनिवृत्तिः रज्जुयाथात्म्यज्ञानातिरेकेण सर्पविनाशमपेक्षते । यदि शरीरसम्बन्धः पारमार्थिकः तदा हि तद्विनाशापेक्षा । स तु ब्रह्मव्यतिरिक्ततया न पारमार्थिकः । यस्य तु बन्धो न निवृत्तः तस्य ज्ञानमेव न १० जातमित्यवगम्यते, ज्ञानकार्यादर्शनात् । तस्मात् शरीरस्थितिर्भवतु वा मा वा ; वाक्यार्थज्ञानसमनन्तरं मुक्त एवासौ । अतो न ध्याननियोगसाध्यो मोक्ष इति न
I
"
१. मुण्ड ३ - मु. २ ख ९ ॥
२. वे. ३- अ. ८॥
३. कर्मत्वेन ध्यानक्रियाकर्मत्वेन वा. पा ४. उभयकर्मत्वप्रति पा।।
५. केन. १ ख ३॥
६. अविदितादधि पा ॥
७. बृ. ४- अ, ४. बा. १४ ॥
९. बृ. ५- अ. ४. बा. २॥
For Private And Personal Use Only
८. भेदं पा ॥
१०. ज्ञात. पा ॥