________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम् . १ "प्रभुत्वादाविज्यम्" २इत्यन्तेन सूत्रकलापेन सङ्कर्षणेन कृतः। एवं वेदस्यार्थ३परत्वे कर्मणाञ्च तदर्थत्वे तेषाञ्च केवलानां त्रिवर्गफलत्वे निश्चिते सति,वेदैकदेशभूतवेदान्तभागे केवलकर्मणामल्पास्थिरफलत्वं ब्रह्मज्ञानस्य च अनन्तस्थिरफलत्वमापाततो दृष्ट्वा, अनन्तरं मुमुक्षोरवधारितपरिनिष्पन्नवस्तुबोधजननशब्दशक्तेः पुरुषस्य ब्रह्मबुभुत्सा जायते इति “अथातो ब्रह्मजिज्ञासा" इति कर्मविचारानन्तरं ततएव हेतोः ब्रह्मविचारः कर्तव्य४इत्युक्तं भवति। तदिदमाह श्रुतिः ५“परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन,तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् , समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठं, तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय, येनाक्षरं पुरुषं वेदसत्यम् , प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्" इति । ब्राह्मणः - वेदाभ्यासरतः, ६कर्मचितान् - कर्मणा सम्पादितान् , लोकान् - आराध्यक्षयिष्णुत्वेन क्षयस्वभावान् , कर्ममीमांसया परीक्ष्य, अकृतः - नित्यः परमपुरुषः, कृतेन - कर्मणा, न सम्पाद्यइति, यो निर्वेदमायात् , सः, तद्विज्ञानार्थ, गुरुमेवाभिगच्छेत् , समित्पाणिः, श्रोत्रियं - वेदान्तवेदिनम् , ब्रह्मनिष्टम् - साक्षात्कृतपरमपुरुषस्वरूपम् , सः - गुरुः, सम्यगुपसन्नाय तस्मै, येन - विद्याविशेषण, अक्षरम् , सत्यम् , परमपुरुषम् , विद्यात् , तां ब्रह्मविद्याम् , प्रोवाचप्रबेयादित्यर्थः; "स गुरुमेवाभिगच्छेत् , तस्मै स विद्वान् , प्रोवाच" इत्यन्वयात् अप्राप्तत्वाञ्च, विधावपि लिटो विधानात् ७“छन्दसि लुङ्ललिटः" इति ॥
इति वेदान्तसारे जिज्ञासाधिकरणम् ॥ १॥
श्रीमते रामानुजाय नम:. अथ वेदान्तदीपः.
श्रियःकान्तोऽनन्तो वरगुणगणकास्पदवपुः
हताशेषावद्यः परमखपदो वाङ्मनसयोः । १. पूर्वमीमांसायां. १२-४.
५. मु. १. २. १२, १३. २. इत्यन्तसूत्र. पा, ३. वत्त्वे. पा. ६. कर्मणा सम्पादितान् लोकान् आराध्य४. कर्तव्य इत्युक्तम् । तदिद. पा, क्षयि. पा. ७. अष्टाध्या. ३-४-६.
15
For Private And Personal Use Only