________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८ शारीरकमीमांसाभाष्ये
[अ. १. निश्चेष्टं निर्विशेषमचेतनमिदं वस्त्वित्याद्यर्थबोधेषु बहुषु भयनिवृत्तिहेतुषु सत्सु विशेषनिश्चयायोगात् । कार्यबुद्धिप्रवृत्तिव्याप्तिबलेन शब्दस्य प्रवर्तकार्थावबोधित्वमुपगतमिति सर्वपदानां कार्यपरत्वेन सर्वैः पदैः कार्यस्यैव विशिष्टस्य प्रतिपादनानान्यान्वितस्वार्थमाते पदशक्तिनिश्चयः। इष्टसाधनताबुद्धिस्तु कार्यबुद्धिद्वारेण प्रवृत्तिहेतुः, न स्वरूपेण, अतीतानागतवर्तमानेष्टोपायबुद्धिषु प्रवृत्त्यनुपलब्धेः। 'इष्टोपायो हि मत्प्रयत्नादृते न सिध्यति । अतो मत्कृतिसाध्यः, इतिबुद्धिर्यावन्न जायते तावन्न प्रवर्तते । अतः कार्यबुद्धिरेव प्रवृत्तिहेतुरिति प्रवर्तकस्यैव शब्दवाच्यतया कार्यस्यैव वेदवेद्यत्वात्परिनिष्पन्नरूपब्रह्मप्राप्तिलक्षणानन्तस्थिरफलाप्रतिपत्तेः २“अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवति" इत्यादिभिः कर्मणामेव स्थिरफलत्वप्रतिपादनाच्च कर्मफलाल्पास्थिरत्वब्रह्मज्ञानफलानन्तस्थिरत्वज्ञानहेतुको ब्रह्मविचारारम्भो न युक्तः इति ॥
अनाभिधीयते --- निखिललोकविदितशब्दार्थसम्बन्धावधारणप्रकारमपनुद्य सर्वशब्दानामलौकिकैकार्थावबोधित्वावधारणं प्रामाणिका न बहुमन्वते । एवं किल बालाश्शब्दार्थसंबन्धमवधारयन्ति—मातापितप्रभृतिभिरम्बातातमातुलादीन् शशिपशुनरमृगपक्षिसादींश्च 'एनमवेहि इमं चावधारय'इत्यभिप्रायेण ४अङ्गल्या निर्दिश्यनिर्दिश्य तैस्तैश्शब्दैस्तेषुतेष्वर्थेषु बहुशशिक्षिताश्शनैश्शनैस्तैस्तैरेव शब्दैस्तेषुतेष्वर्थेषु स्वात्मनां बुद्ध्यत्पत्तिं दृष्ट्वा शब्दार्थयोस्संबन्धान्तरादर्शनात्संकेतयितृपुरुषाज्ञानाच तेष्वर्थेषु तेषां शब्दानां प्रयोगो बोधकत्वनिबन्धन इति निश्चिन्वन्ति । पुनश्च व्युत्पन्नेतरशब्देषु 'अस्य शब्दस्यायमर्थः' इति पूर्वद्धैश्शिक्षितास्सर्वशब्दानामर्थमवगम्य परप्रत्यायनाय तत्तदर्थावबोधि वाक्यजातं प्रयु१. त्वमवगत. पा.
३. शब्दानामलौकिकार्था. पा. २. आपस्तम्बश्रौतसू. २. प्रश्न. १.खं, १.स. ४. अङ्गल्यादिभिनिर्दिश्य ते. पा.
For Private And Personal Use Only