SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर - बालातपासहितम् मन्त्रराजजपश्चैव चक्रराजार्चनं तथा । रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ॥ ३१० ॥ एवं प्रत्येकं विरलानां त्रयाणामेकत्र मेलनमतीव दुर्लभमिति न्यायसिद्धमेवार्थमाह–मन्त्रेति । अपितु निरवधिकस्येति शेषः । नकारेणैवायं समासो नाल्पस्येति न तु नञ् ॥ ३१० ॥ अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् । स चक्षुषा विना रूपं पश्येदेव विमूढधीः ॥ ३११ ॥ रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः । स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ॥ ३१२ ॥ एवं देवताप्रीतिकरत्वं सर्वकामपूरकत्वं चास्यान्वयमुखेनोक्त्वा व्यतिरेकमुखेन निदर्शनालङ्काराभ्यां द्रढयति - अपठन्निति द्वाभ्याम् । स्पष्टोऽर्थः ॥ ३११-३१२ ॥ यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् । नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ॥ ३१३ ॥ तस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् । इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव ॥ ३१४ ॥ 373 I भक्ततावच्छेदकमप्येतदेवेत्यन्वयव्यतिरेकाभ्यामाह - य इति । यो नित्यं सङ्कीर्तयेत्स एव भक्तो नान्य इत्यर्थः । 'ये यजमानास्त ऋत्विज' इत्यत्रेव यत्तदोर्वैपरीत्येनान्वयः ॥१३॥ नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन । यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ॥ ३१५ ॥ - नामसाहस्रपाठविधिं निगमयंस्तत्फलकथनमुपसंहरति- तस्मादिति । प्रयतः शुचिः ॥ ३१४ ॥ उत्तरत्र सम्प्रदायप्रवर्तनप्रकारं शिक्षयति पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् । यो ददाति विमूढात्मा श्रीविद्यारहिताय तु ॥ ३१६ ॥ For Private and Personal Use Only नेति । भक्तायापि विद्यावेदनरहिताय तत्सहितायाप्यभक्ताय न ब्रूयात् । तथा गोप्यं श्रीविद्या यथा तदभाववते न प्रदर्श्यते तथेदं तद्वतेपि न प्रदर्श्य किमुत तदभाववत इति भावः ॥ ३९५ ॥
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy