SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (6) ष्मत्यां च कस्तूर्यां माधवीदूर्वयोलता' इति रभसः । अर्धभक्तानां भक्तिपूर्तिदानद्वारा सन्तोषिकेति यावत् । तदुक्तं शक्तिरहस्ये 'अक्रमेणार्धभक्त्या वा भवान्याः कृतमर्चनम् । जन्मान्तरे क्रमप्राप्त्यै पूर्वभक्त्यै च कल्पते ॥ एवं यथा यथा नाम्नां विमर्शः क्रियेत नवनवा विचारपद्धतिर्दृग्गोचरीभवतीति विस्मयावहं वैदुष्यम् । ग्रन्थस्यास्य सर्वोऽपि प्रकाशनोपक्रमस्तत्पूर्तिश्च सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतीनां प्रो. वि. वेङ्कटाचलम्महाभागानामध्यवसायेन प्रेरणया समुत्साहेन च सम्पन्नेति तेभ्यः साधुवाददानमौपचारिकं भवति । केवलं जगन्मातुश्चरणकमलयोस्तेषामनामयं सौभाग्यञ्च भूयोभूयः प्रार्थयामहे | एतस्मिन् प्रकाशनकर्मणि निरन्तरं परिश्राम्यतो योगतन्त्रागमविभागाध्यापकस्य डॉ. शीतलाप्रसादोपाध्यायस्य योगदानमप्यविस्मरणीयं वर्तते । सोऽपि विद्यापान्थो भूत्वा जगन्मातु: कृपया वर्धतामित्याशासे । एतत्प्रकाशने कृतसाहाय्यः प्रकाशनाधिकारी डॉ. हरिश्चन्द्रमणित्रिपाठिमहोदयोऽपि भृशं साधुवादमर्हतीति । वाराणस्याम् कार्तिकपूर्णिमायाम्, वि. सं. २०५१ । विद्वज्जनानुचर बटुकनाथशास्त्रि खिस्ते For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy