SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (4) आचार्या अखिले भारतवर्षे परिभ्रमन्तः स्थले स्थले यागादिकर्माणि विदधानाः समागतान् योग्यान् शिष्यांश्च सन्मार्गमुपनयन्तो धर्मस्थापनं सम्प्रदायरक्षणञ्चान्वतिष्ठन् । जलाशयमन्दिराऽऽरामादिनिर्माणमपि विहितं विविधप्रदेशेषु तैः । एतेषां विविधाः कथा अलौकिक सामर्थ्यबोधिकाः परम्परासु प्रसिद्धाः सन्ति । अद्यापि तेषां परम्परा महाराष्ट्रे, द्रविडदेशे, अन्यत्र च जागर्ति । मध्यार्जुनक्षेत्रे तेषां निर्वाणं जातमिति च ज्ञायते । सौभाग्यभास्करः ब्रह्माण्डपुराणे ललितोपाख्याने भगवत्यास्तदिदं सहस्रनामस्तोत्रं सन्निविष्टमस्ति । भण्डासुरवधानन्तरं भगवत्याराधनाय सभामण्डपे समुपविष्टेष्वशेषदेवतागणेषु देव्या अनुशासनात् अष्टवाग्देवताभिः सहस्रनामस्तोत्रमिदं प्रणीय पठितम् । येन च प्रसन्ना ललिताम्बिका स्तोत्रपाठकेभ्यः सर्वविधं सौभाग्यप्रदानमन्वशात् । संस्कृतवाङ्मये विशेषतः स्तोत्रसाहित्ये नैतादृशं किमपि स्तोत्रमन्यदस्ति यत्सौन्दर्य-माधुर्यगाम्भीर्यादिगुणातिशयैरितोऽप्यधिकं स्यात् । संस्कृतवाङ्मयेतिहासलेखकस्य एम्. कृष्णमा- चारियरमहोदयस्य स्पष्टमिदं मतम् । एतदीयव्याख्याननिर्माणमपि न साधारणं कार्यम् । अस्मिन् स्तोत्रे सर्वेषां वेदपुराणागमादीनां सन्दर्भो रहस्यार्थश्च स्थले स्थले निगूढो नापातबुद्ध्याऽवगन्तुं शक्यः । श्रीभास्कररायैः करतलामलकीकृतसर्ववाङ्मयैरस्य स्तोत्रस्य निगूढोऽप्यर्थः प्राञ्जलया प्रमाणशतपरिपुष्टया च वाचा व्यधायि । सहस्रनामव्याख्याने नृसिंहाध्वरिगुरूणां प्राक् परिभाषा उल्लिख्यन्ते, यासु नाम्नां सन्निवेशक्रमः संख्यासङ्केतश्च छलाक्षरसूत्रविधया परिदर्शितः । येन न्यूनाधिकपरिच्छेदपूर्वकं व्याख्येयविषयनियमनं सम्भवेत् । यदुक्तम्— 'ललितानामसहस्रे छार्णसूत्रानुयायिन्यः । परिभाषा भाष्यन्ते संक्षेपात्कौलिकप्रमोदाय || पञ्चाशदेक आदौ नामसु सार्थद्व्यशीतिशतम् । षडशीतिः सार्धान्ते सर्वे विंशतिशतत्रयं श्लोकाः ॥ 'सौभाग्यभास्करः' इति नामापि साभिप्रायम् । आगमशास्त्रे तपिनी - तापिन्याद्या द्वादशभास्करकलाः पूजादावुपयुज्यन्ते, तदनुसारेण द्वादशकलासु प्रविभक्तमिदं भाष्यं सर्वथा अवभासकमर्थसमुदायस्य । प्रकाशस्य सूर्यधर्मत्वात् । किञ्च, शैवशास्त्रेषु प्रमातृ-प्रमाण- प्रमेयात्मा त्रिपुटीति पठ्यते । तत्र प्रमाताऽग्निः प्रमाणं सूर्यः, प्रमेयश्च चन्द्रः । मध्यवर्तिनः प्रमाणस्योभयावभासकत्वं सिद्ध्यति । अन्यच्च 'त्रिखण्डो मातृकामन्त्रः सोमसूर्यानलात्मकः ' For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy